________________
आगम
(४१ / १)
प्रत गाथांक
नि/भा/प्र
||४७१||
दीप
अनुक्रम [७४६ ]
“ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः)
मूलं [७४६]
“निर्युक्ति: [४७१] + भाष्यं [ २४७... ] + प्रक्षेपं [ २७...]"
८०
मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[ ४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
प्रभुर्यदि ददाति, किंविशिष्टः १ - कम्पमानः परेण धृतः सन् ततो गृह्यते, अथासौ स्थविरः प्रभुर्यदि दृढशरीरो ददाति तथाऽपि गृह्यते । दारं । इदानीं पण्डकादीनां यतनादर्शनायाह
पंड अप्पडिसेवी मत्तो सट्टो व अप्पसागरिए । खेत्ताइ भद्दगाणं करचरविट्टप्पसागरिए || ४७१ ॥
पण्डकस्य ददतो गृह्यते यद्यसावप्रतिसेवी भवति न कुत्सितं कर्म आचरति । दारं । श्राद्धकस्य च मत्तस्य हस्तागृह्यते, यद्यसावल्पसागारिकः स भवेत्, वाशब्दादल्पमदश्च यदि स्यात् । दारं । तथा क्षिप्तचित्तदीप्तचित्तयक्षाविष्टानां हस्तागृह्यते यदि प्रकृत्या भद्रका भवन्ति - साधुवासनावन्त इत्यर्थः । द्वारत्रितयं । तथा कररहितचरणरहितानां हस्तागृह्यते, कथं?, चरणरहितो यद्युपविष्टो ददाति अल्पसागारिकं च यदि भवति, कररहितोऽपि यद्यल्पसागारिके ददाति ततो गृह्यते नान्यथा । द्वारद्वितयं । इदानीमन्धादियतनाप्रदर्शनायाह
सहो व अन्नभण अंधे सविधारणा य बर्द्धमि । तदोसिए अभिन्ने वेला धणजीवियं धेरा ॥ ४७२ ।।
अन्धस्य च हस्तागृह्यते यदि श्रद्धावानन्येनाकृष्यमाणो ददाति । दारं । बद्धस्य च हस्ताद् गृह्यते यदि स सविचारो भवति परिष्वष्वितुं शक्नोति । दारं । 'स्वग्दोषदुष्टस्यापि कुष्ठिनोऽपि हस्ताद् गृह्यते यद्यसावभिन्नकुष्ठी भवति - गलत्कुष्ठो न भवतीति । दारं । वेलेति-गुर्विण्या यदि वेलाभासस्ततस्तस्था हस्तान्न गृह्णन्ति स्थविरकल्पिका इतरत्र गृहन्ति, जिनकल्पि कादयस्तु यतः प्रभृत्यापन्नसत्त्वा भवति तत एवारभ्य न गृह्णन्ति । दारं । तथा स्थविरा: स्थविरकल्पिकाः स्तनोपजीवी
For Pernal Use On
~ 332~