________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६८०] → “नियुक्ति : [४२४] + भाष्यं [२२८...] + प्रक्षेपं [२७...]" .. मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ॥४२४||
++
बॅटल पद्धो न याणे आयन्नातीणि वजाए ठाणे । सुद्धं गधेस संछ पंचाइयारे परिहरतो ॥ ४२४ ॥ वेण्टलं-निमित्तादि पृष्टः सन्नेवं भणति-न जाने, एवं भणता द्वितीयमहाव्रतयतना कृता भवति । इदानीं तृतीयमहाव्रतयतनां दर्शयन्नाह-'आयण्णाईणि वज्जए ठाणे' तत्र भिक्षार्थं प्रविष्ट आकीर्णादिस्थानं परिवर्जयेत् , यत्र हिरण्यादि विक्षिप्तमास्ते तदाकीर्णस्थानं तच्च साधुना वर्जनीय, एवं तृतीयमहाव्रतयतना कृता भवति । इदानी पञ्चममहाव्रतयतना प्रतिपादयन्नाह-'शुद्धम्' उद्गमादिदोषरहितं 'गवेषयति' अन्वेपयति 'उञ्छ' भकं पश्चाप्यतीचारान् रक्षन् । उक्ता पश्चममहाव्रतयतना, चतुर्थमहाव्रतयतना तूक्तैच, "इत्धिग्गहणे धर्म" इत्येवमादिना, उक्का सङ्घाटकयतना, इदानीमुपकरणयतनाप्रतिपादनायाह
जहन्नेण चोलपट्टो चीसरणालू गहाय गच्छेज्जा । उस्सग्ग काउ गमणे मत्सयगहणे इमे दोसा ॥ ४२५ ॥ | उत्सर्गस्तावनिक्षार्थं गच्छता सर्वमुपकरणं गृहीत्या गन्तव्यं, यस्तु विस्मरणालुः स जघन्येन चोलपट्टकमादाय गच्छति, उपलक्षणं चात्र चोलपट्टकोऽन्यथा पात्रकं पटलानि रजोहरणं दण्डकं कल्पद्वयं च गृहीत्वा गच्छति । उक्कोपकरणयतना, इदानी मात्रकयतनां प्रतिपादयन्नाह-मात्रकं गृहीत्वा गन्तव्यं, अगृहीत्वा वोत्सर्गमिति-उपयोगं कृत्वा प्रजति, अथ मात्रक न गृह्णाति गच्छंस्ततश्च मात्रकाग्रहणे एते च दोषाः वक्ष्यमाणाः, अत्र च यदुत्सर्गग्रहणं कृतं तद्विधिप्रदर्शनार्थ न |तु पुनः स्वस्थानमिति । इदानी मात्रकाग्रहणे दोषान् प्रदर्शयन्नाह- .
CASSACARSACACADE
दीप अनुक्रम [६८०]
CCASSES
Bhauranorm
~310~