________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
|२१७||
दीप
अनुक्रम [६५५ ]
“ओघनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः)
मूलं [६५५]
"निर्युक्ति: [४११...] + भाष्यं [ २१७ ] + प्रक्षेप [२६...]"
८०
मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[ ४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
आवस्सग सोहेडं पविसे भिक्खस्स सोहणे दोसा । उग्गाहि अवोसिरणे दवअसईए य उड्डाहो || २१७|| (भा० )
अवश्यं कर्त्तव्यमावश्यकं-कायिकाव्युत्सर्गरूपं शोधयित्वा कृत्येत्यर्थः, ततो भिक्षार्थं प्रविशेत्, असोधने आवश्यकस्य दोषा भवन्ति, कथं ? – 'उग्गाहियवोसिरणे'त्ति यद्यसौ साधुः उद्भाहितेन गृहीतेनैव पात्रकेण व्युत्सृजति तत उड्डाहः, अथ तत्प्रात्रकमन्यस्य साधोः समर्प्य यदि व्युत्सृजति ततश्च द्रवस्यासति-अभावे सति 'उड्डाहो' उपघातो भवति । अइदूरगमणफिडिओ अलहंतो एसपि पेलेज्जा । छड्डावण पंतावण धरणे मरणं च छक्काया ॥ २९८ ॥ (भा०)
अथासौ अतिदूरं गमनं करोति स्थण्डिले ततः 'फिडिओ'ति भ्रष्टः सन् भिक्षावेलाया भिक्षामप्राप्नुवन्नेषणामपि 'प्रेर येत्' अतिक्रामयेत्, अथवा तत्रैव क्वचिद्गृहासन्ने व्युत्सृजति ततः 'छड्डावण'त्ति स गृहपतिस्तदशुचि छड्डाबेति, त्याजयतीत्यर्थः, अथवा पंतावणं-ताडनं कशादिना करोति, अथैतदोषभयाद्धरणं करोति पुरीषवेगस्य ततो मरणभयं भवेत्, व्युत्सृजतस्तु षट्कायविराधनेति, स्थण्डिलाभावात् । 'आवस्सए'त्ति गयं, 'संघाडए' ति व्याख्यायते— एकाणियस्स दोसा इत्थी साणे तहेव पडिणीए । भिक्खविसोहि मह्वय तम्हा सवितिज्जए गमणं ॥ ४१२॥ दारं ।
यदि सङ्घाटकोपेतः सन् भिक्षाटनं न करोति तत एकाकिन एते दोषाः स्त्रीकृतः श्वजनितः प्रत्यनीकजनितः भिक्षाविशुद्धिरेकस्य न भवति तथा व्रतोपघातो भवति तस्मात्सद्वितीयेन गन्तव्यम् । इयं च प्रतिद्वारगाथा, इदानीं भाष्यकार: | प्रतिपदं व्याख्यानयति
For Park Use Only
~300~