________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [२०] .→ “नियुक्ति : R.R] + भाष्यं [१४...] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
KAR
प्रत
गाथांक नि/भा/प्र ||१४||
श्रीओष- इति । अत्राह-अथैषां द्वाराणामित्थं क्रमोपन्यासे किं प्रयोजनमिति, अत्रोच्यते, यत्प्रतिलेखनाद्वारस्य पूर्वमुपन्यासः कृत- प्रतिलेखनियुक्तिः स्तत्रैतत्प्रयोजन-सर्वैव क्रिया प्रतिलेखनापूर्विका कर्तब्येत्यस्यार्थस्य प्रतिपादनार्थं पूर्व प्रतिलेखनाद्वारमुपन्यस्तं, प्रतिलेख- नादीनि ७ द्रोणीयानोत्तरकालं ग्रहणं भवति अतः पिण्डस्योपन्यासः, अशेषदोषविशुद्धः पिण्डो ग्राह्य इति, तदनन्तरमुपधिद्वारस्योपन्यासःद्वा . नि.२ वृत्तिः सक्रियते, किमर्थमिति चेत्, स हि पिण्डो न पात्रबन्धादिकमन्तरेण ग्रहीतुं शक्यते अत उपधिप्रमाणं तदनन्तरमभिधीयते,
स मतल पाच गृहीतः पिण्ड उपधिश्च न वसतिमन्तरेणोपभोकुं शक्यते, अतः 'अनायतनवर्य' इत्यस्य द्वारस्योपन्यासः क्रियते, प्रति-II
हालेखनां कुर्वतः पिण्डग्रहणमुपधिप्रमाणं अनायतनवर्जनं चेच्छतः कदाचिवचित्कश्चिदतिचारो भवतीत्यतोऽतिचारद्वार। क्रियते, स चातिचारोऽवश्यमालोचनीयो भावशुद्ध्यर्थमत आलोचनाद्वारमभिधीयते, आलोचनोत्तरकालं प्रायश्चित्तं तद्योग्य यतो दीयतेऽतो विशुद्धिद्वारस्योपन्यासः क्रियत इत्यलमतिविस्तरेण ॥२॥ अधुनैकैकं द्वारं 'ब्याचष्टे, तत्र पर्यायतः प्रतिलेखनाद्वारव्याख्यानायाह
आभोगमग्गण गवेसणा य ईहा अपोह पडिलेहा । पेक्खणनिरिक्खणावि अ आलोयपलोयणेगट्ठा ॥३॥
आभोगनमाभोगः, 'भुज पालनाभ्यवहारयोः' मर्यादयाऽभिविधिना वा भोगन-पालनमाभोगः प्रतिलेखना भवति, मार्गणं मागंणा 'मृग अन्वेषणे' अशेषसत्त्वापीडया यदन्वेषणं सा मार्गणेत्युच्यते, गवेषणं गवेषणा 'गवेष मार्गणे' अवशेषदोषरहि-1४॥ १२ ॥ तवस्तुमागणं गवेषणेत्युच्यते, ईहनमीहा 'ईह चेष्टायां शुद्धवस्त्वन्वेषणरूपा चेष्टेहेत्युच्यते, सा च प्रतिलेखना भवति, अपोहनमपोहः अपोहा-पृथग्भाव उच्यते, तथा चक्षुषा निरूप्य यदि तत्र सत्त्वसम्भवो भवति तत उद्धारं करोति सत्त्वानां
दीप अनुक्रम
[२०]
walariasurary.org
प्रतिलेखनाया: पर्याय-शब्दानाम् कथन-पूर्वकं तत् द्वारस्य वर्णनं
~ 27~