________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [२०] . "नियुक्ति : [R.R] + भाष्यं [१४] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति" मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||१४||
ARESS
दीप अनुक्रम
Hौधनियुक्ति प्रतिपादयति इति, अत्रोच्यते, अविज्ञायैव परमार्थं भवतैतच्चोयते, इह हि वन्दनादिक्रिया प्रतिपादितैवासा
धारणनामोद्घटनादेव, तथाहि-अशोकाद्यष्टमहाप्रातिहार्यादिरूपा पूजामहन्तीत्यईन्तः, तदनेनैव स्तवोऽभिहितः, एवं चतुदशपूर्वधरादिष्वपि योजनीयं, अलं प्रसङ्गेन, प्रकृतं प्रस्तुमः-'पडिलेहणं' इति, 'लिख अक्षरविन्यासे' प्रतिलेखनं प्रतिलेखना तां वक्ष्याम इति, एतदुक्तं भवति-आगमानुसारेण या निरूपणा क्षेत्रादेः सा प्रतिलेखनेति । चशब्दात्पतिलेखक प्रतिलेखनीयं च वक्ष्ये । अथवाऽनेकाकारां प्रतिलेखनां च वक्ष्ये, उपाधिभेदात् । "पिंड'ति पिण्डनं पिण्डः-सङ्घातरूपस्त पिण्ड, वक्ष्य इति प्रत्येक मीलनीय, भिक्षाशोधिमित्यर्थः । 'उपधिप्रमाणं' इति उपदधातीत्युपधिः, उप-सामीप्येन संयम धारयति पोषयति चेत्यर्थः, स च पानादिरूपस्तस्य प्रमाणं, तच्च गणनाप्रमाणे प्रमाणप्रमाण च । 'अणाययणवज' इति नायतनमनायतनं तद्वयं-त्याध्यमित्येतच्च वक्ष्ये, अथवाऽनायतनवय॑मायतनं, तदायतनं वक्ष्ये, तञ्चानायतनं स्त्रीपशुपण्डकसंसक्तं यद्वर्तते, तद्विपरीतमायतनं । 'पडिसेवणं' इति प्रतीपा सेवना प्रतिसेवना, एतदुक्तं भवति-संयमानुष्ठानात्मतीपमसंयमानुष्ठानं तदासेवना ताम् । 'आलोयण' इति आलोचनमालोचना अपराधमर्यादया लोचनं-दर्शनमाचार्यादेरालोचनेत्यभिधीयते, किमालोचनामेव ?, नेत्याह-'जह य' इत्यादि, 'यथा' येन प्रकारेण 'विशोधिः' विशेषेण शोधिर्विशोधिः, एतदुक्तं भवति-शिष्येणालोचितेऽपराधे सति तद्योग्यं यत्प्रायश्चित्तप्रदानं सा विशोधिरभिधीयते, तां विशोधि । केषां संवन्धिनीं विशोधि , तदाह-सुविहितानां शोभनं विहितम्-अनुष्ठानं येषां ते सुविहितास्तेषां संवन्धिनी यथा | विशोधिस्तथा वक्ष्ये, चशब्दः समुच्चये, किं समुचिनोति ?-कारणप्रतिसेवने अकारणप्रतिसेवने च यथा शोधिस्तथा वक्ष्य
24-%-454
[२०]
Santaram
spaurary on
अत्र मूल संपादने किचित स्खलनत्वात् नियुक्तिक्रम २ द्विवारान् लिखितं, तत् कारणात् मया शिर्षक-स्थाने '२.R' इति लिखितम्
~ 26~