________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [८] → “नियुक्ति: [२...] + भाष्यं [३] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्तिः
प्रत
गाथांक नि/भा/प्र
||३||
दधानं च यत्सा प्रतिलेखना, सा च चोलपट्टादेरुपकरणस्येति 'गुत्तीओं'त्ति गोपनानि गुप्तयो-मनोवाकायरूपास्तिस्रः।
'अभिग्गह'त्ति अभिग्रहा द्रव्यादिभिरनेकप्रकाराः, चशब्दो वसत्यादिसमुच्चयार्थः, एवकारः क्रमप्रतिपादनार्थः, 'करणं तु'त्ति क्रियत इति करणं, मोक्षार्थिभिः साधुभिनिष्पाद्यत इत्यर्थः, तुशब्दो विशेषणे, मूलगुणसद्भावे करणत्वमस्य, नान्यथेति ।। आह-ननु समितिग्रहणेनैव पिण्डविशुद्धगृहीतत्वान्न पिण्डविशुद्धिग्रहणं कर्तव्यं, यत एषणासमिती सर्वैषणा गृहीता, पिण्डविशुद्धिरप्येषणैव, तत्किं भेदेनोपन्यासः १ इति, अत्रोच्यते, पिण्डव्यतिरेकेणाप्येषणा विद्यते वसत्यादिरूपा तस्या ग्रहणं भविष्यति, तत्र पिण्डविशुद्धेस्तु भेदेनोपन्यासः कारणे ग्रहणं कर्तव्यं नाकारणे इत्यस्यार्थस्य प्रतिपादनार्थः, अथवाऽऽहा-18 रमन्तरेण न शक्यते पिण्डविशुख्यादि करणं सर्वमेव कर्तुमतो भेदेनोपन्यास इति । अत्राह-चरणकरणयोः कः प्रतिविशेषः ? इति, अत्रोच्यते, नित्यानुष्ठानं चरणं, यनु प्रयोजन आपन्ने क्रियते तत्करणमिति, तथा च व्रतादि सर्वकालमेव चर्यते न पुनर्वतशून्यः कश्चित्काल इति, पिण्डविशुद्ध्यादि तु प्रयोजने आपन्ने क्रियत इति । एवं व्याख्याते सत्याह परः-४ "ओहेण उ निजुत्तिं वुच्छं चरणकरणाणुओगस्स" इत्येवं वक्तव्यं, तस्किमर्थं पष्ठचुल्लङ्घनं कृत्वा पञ्चम्यभिधीयते, इत्यस्थार्थस्य प्रतिपादनार्थमिदं गाथासूत्रमाहचोदगवयणं छट्ठी संबंधे कीस न हवइ विभत्ती?। तो पंचमी उ भणिया, किमथि अन्नेऽवि अणुओगा ॥४॥(भा०) ___ व्याख्या-'चोदग'त्ति चोदकवचनं, किंभूतम् ?, तदाह-षष्ठी संबन्धे किमिति न भवति विभक्तिः, संबन्धन संवन्धस्तस्मिन् संबन्धे षष्ठी किमिति न भवति ?, एतदुक्तं भवति-चरणकरणानुयोगसंबन्धिनीमोपनियुक्तिं वक्ष्य इति वाच्यं, तदुल्लानं
दीप अनुक्रम
[८]
~16~