________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [९] → “नियुक्ति: [२...] + भाष्यं [४] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्तिः
नियुक्तिीत्यर्थ, एवं
प्रत गाथांक नि/भा/प्र ||४||
वृत्तिः
दीप अनुक्रम
श्रीओष- कृत्वा पञ्चम्युच्यते तत्र प्रयोजनं वाच्यं, अथ न किश्चित्प्रयोजनं ततः पञ्चमी भणिता किं केन कारणेन ?, निष्प्रयोजनैवे
त्यर्थः, एवं चोदिते सत्याहाचार्यः-अस्त्यत्र प्रयोजनं षष्ठयुलहनं कृत्वा यत् पञ्चम्युपन्यस्ता, किम् ? इत्यत आह-'अत्थिा द्रोणीया
अण्णेऽवि अणुओगा सन्ति-विद्यन्ते अन्येऽप्यनुयोगाः, अस्यार्थस्य प्रतिपादनार्थमेवमुपन्यासः कृत इति । पुनरप्याह-यद्यन्येऽ-3 दाप्यनुयोगाः सन्ति पञ्चम्याः किमायातम् । इति, अत्रोच्यते, अस्थाचार्यस्येयं शैली-यदुभयत्र कचित्तत्र षष्ठयाः सप्तम्या वा निर्देशं करोति, तथा च-"आवस्सगस्स दसकालियस्स तह उत्तरज्झमायारे (आव०नि०पत्रे ६१ गाथे ८४-८५)
इत्येवमादि । अत्र तु शैली त्यक्त्वा पञ्चम्या निर्देशं कुर्वन्नाचार्य एतत् ज्ञापयति-सन्त्यन्येऽप्यनुयोगा इति, तदत्राहं चरण६ करणानुयोगाद्वक्ष्ये नान्यानुयोगेभ्य इति । तथा षष्ठी द्विविधा दृष्टा-भेदषष्ठी अभेदषष्ठी च, तत्र भेदषष्ठी यथा-देवदत्तस्य
गृहम् , अभेदषष्ठी यथा-तैलस्य धारा शिलापुत्रकस्य शरीरकमिति, तद्यदि षष्ठ्या उपन्यासः क्रियते ततो न ज्ञायते-किं चरणकरणानुयोगस्य भिन्नामोपनियुक्तिं वक्ष्ये यथा देवदत्तस्य गृहमिति, अथाहोश्विदभिन्नां वक्ष्ये यथा तैलस्य धारेति,
तस्य सम्मोहस्य निवृत्त्यर्थं पञ्चम्या उपन्यासः कृत इति । एवं व्याख्याते सत्यपरस्त्वाह-अस्तीत्येकवचनमनुयोगा बहवश्च 15 द्रा तत्कथं बहुत्वं प्रतिपादयति ?, उच्यते, अस्तीति तिडक्तप्रतिरूपकमव्ययम् , अध्ययं च "सदृशं त्रिषु लिङ्गेषु, सर्वासु च विभ-|॥७॥
क्तिषु । वचनेषु च सर्वेषु, यन्न व्येति तदव्ययम् ॥१॥" ततो बहुत्वं प्रतिपादयत्येवेत्यदोषः । अथवा व्यवहितः संबन्धोस्तिशब्दस्य, कथम् ?, इदं चोदकवचनम्-षष्ठी संबन्धे किमिति न भवति विभक्तिः, आचार्य आह-अस्ति षष्ठी विभक्तिः
mastaram.org
~ 17~