________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [७] → “नियुक्ति: [२...] + भाष्यं [२] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-[२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
करणसप्ततिः भा.
प्रत गाथांक नि/भा/प्र ||१||
दीप अनुक्रम
श्रीओप- चार्य न्यायो यथा-ब्राह्मणा आयाता वशिष्ठोऽप्यायातः, अत्र हि ब्राह्मणग्रहणेन वशिष्ठस्यापि ग्रहणं कृतमेव, तथाऽपि नियुक्तिः प्राधान्यात्तस्य भेदेनोपन्यासः क्रियत इति, तथा यच्चोक्त-तपोग्रहणे वैयावृत्त्यविनययोर्न ग्रहणं कर्तव्यं, तदप्यचारु, बैया-1 द्रोणीया वृत्त्यविनययोर्यधा स्वपरोपकारकत्वात्प्राधान्यं नैवमनशनादीनां तपोभेदानामिति, यत्रोक्त-श्रमणधर्मग्रहणे क्रोधादिनिवृत्तिः
ग्रहस्य नोपन्यासः कर्त्तव्यः, तदप्यचारु, इह द्विरूपः क्रोधः-उदयगत उदीरणावलिकागतश्च, तत्रोदयगतनिग्रहः क्रोधशनिग्रहः, एवं मानादिप्वपि वाच्य, यस्तु उदीरणाबलिकाप्राप्तस्तस्योदय एव न कर्तव्यः क्षान्त्यादिभिहेंतुभिरिति, अथवा
त्रिविधं वस्तु-ग्राह्य हेयमुपेक्षणीयं च, तत्र क्षान्त्यादयो ग्राह्याः, क्रोधादयो हेयाः, अतो निग्रहीतव्यास्त इत्येवमर्थमिस्थमुपन्यस्ता इति स्यात्साधु सर्वमेवैतद्गाथासूत्रमिति । अधुना करणावयवप्रतिपादनार्थमिदं गाथासूत्रमाह-- पिंड विसोही समिई भावण पडिमा य इंदियनिरोहो। पडिले हैंणगुत्तीओ अभिरंगेहा चेव करणं तु ॥३॥(भा०) 12 । अस्या व्याख्या-पिंड'त्ति पिण्डन पिण्डस्तस्य विविधम्-अनेकैः प्रकारः शुद्धिः आधाकर्मादिपरिहारप्रकारैः पिण्डवि-13 शुद्धिः, सा किम् ?, करणं भवतीति योगः, 'समिति'त्ति सम्यगितिः-सम्यग्गमनं प्राणातिपातवर्जनेनेत्यर्थः, जातावेकवचनं, ताश्चेयोसमित्यादयः समितयः, 'भावण'त्ति भाब्यन्त इति भावना:-अनित्यत्वादिकाः 'पडिम'त्ति प्रतिमाः-अभिप्रहप्रकारा मासाद्या द्वादश भिक्षुप्रतिमाः, चशब्दाभद्रादयश्च प्रतिमा गृह्यन्ते, 'इंदियनिरोहो त्ति इन्द्रियाणि-स्पर्शनादीनि ते निरोधः, आत्मीयेष्टानिष्टविषयरागद्वेषाभाव इत्यर्थः, 'पडिलेहण' इति प्रतिलेखनं प्रतिलेखना 'लिख अक्षर विन्यासे' अस्य प्रतिपूर्वस्य ल्युडन्तस्यानादेशे टापि च विहिते प्रतिलेखनेति भवति, एतदुक्तं भवति-अक्षरानुसारेण प्रतिनिरीक्षणमनु
[७]
SAREauratonirMind
Prasurary.com
'करण' पदस्य व्याख्या
~ 15~