________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||2||
दीप
अनुक्रम
[७]
Jan Educator
“ओघनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः)
→
मूलं [७]
मुनि दीपरत्नसागरेण संकलित
“निर्युक्तिः [२] + भाष्यं [२] + प्रक्षेपं [३...]" ० आगमसूत्र - [ ४१/१] मूल सूत्र - २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
धनिग्रहादि चरणमेतत् । एवं व्याख्याते सत्याह परः - ननु प्रतान्तर्गतत्वाद् गुप्तयो न पृथक् कर्तव्याः, अथ परिकरभूताचतुर्थव्रतस्य ब्रह्मचर्यगुप्तयोऽभिधीयन्ते, एवं तहकैकस्य व्रतस्य परिकरभूता भावना अपि वाच्याः, न च ज्ञानादित्रयस्य ग्रहणं कर्तव्यं, अपि तु ज्ञानसम्यग्दर्शनयोरेवोपन्यासः कर्तव्य इति, चारित्रस्य त्रतग्रहणेनैव ग्रहणात्, तथा श्रमणधर्मप्रहणेन संयमग्रहणं तपोग्रहणं चातिरिच्यते, संयमतपसी वोद्धत्य श्रमणधर्मस्योपन्यासः कर्तव्यः, तथा तपोग्रहणे च सति वैयावृत्यस्योपन्यासो वृथा, चशब्दसमुच्चितस्य च विनयस्य, वैयावृत्त्यत्रिनययोस्तपोऽन्तर्गतत्वात्, तथा क्षान्त्यादिधर्मप्रहणे च सति क्रोधादिनिग्रहग्रहणमनर्थकं तदियं सर्वेव गाथा प्रलूनविशीर्णेति तत्कथमेतत् १ इति, अत्रोच्यते, अविज्ञायैव परमार्थमेवं चोद्यते, यदुक्तं व्रतग्रहणे ब्रह्मगुप्तिज्ञानादित्रयोपन्यासो न कर्तव्यः तत्तावत्परिहियते यदेतद्व्रतचारित्रं स एकांशो वर्तते चारित्रस्य, सामायिकादि च चारित्रं चतुर्विधमगृहीतमास्ते तग्रहणार्थं ज्ञानादित्रयमुपन्यस्तं, व्रतग्रहणे ब्रह्मचर्यगु तयो यदभिधीयन्ते तद्ब्रह्मचर्यस्य निरपवादत्वं दर्शयति, तथा चोक्तम्- “नवि किंचिवि पडिसिद्धं नाणुन्नायं च जिणवरिंदेहिं । मुत्तुं मेहुणभावं न विणा तं रागदोसेहिं ॥ १ ॥" अथवा पूर्वपश्चिमतीर्थकर तीर्थयोर्भेदेनैतत् महाव्रतं भवति, अस्यार्थस्य प्रतिपादनार्थं भेदेनोपन्यासः कृत इति, यच्चोक्तं श्रमणधर्मग्रहणे संयमतपसोर्न ग्रहणं कर्तव्यम्, श्रमणधर्मग्रहणेनैव गृहीतत्वात्तयोः, तदप्यसाधु, संयमतपसोः प्रधानमोक्षाङ्गत्वात् कथं प्रधानत्वम् ? इति चेत् अपूर्वकर्माश्रवसंचरहेतुः संयमो वर्तते, पूर्वगृहीतकर्मक्षयहेतुश्च तपः, ततः प्रधानत्वमनयोः, अतो गृहीतयोरप्यनयोर्भेदेनोपन्यासः कृतः, दृष्ट
१ नापि किञ्चिदपि प्रतिषिद्धं नानुज्ञातं च जिनवरेन्द्रः । मुक्त्तवा मैथुनभावं न बिना तद् रागद्वेषाभ्याम् ॥ ॥
For Penal Use Only
~14~