SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ॥९३॥ दीप अनुक्रम [ २८६] Eticatio “ओघनिर्युक्ति”- मूलसूत्र - २/१ (मूलं + निर्युक्तिः +वृत्तिः) मूलं [ २८५] ● → मुनि दीपरत्नसागरेण संकलित "निर्युक्तिः [ १७७] + भाष्यं [९३] + प्रक्षेपं [१४]...]" ८० आगमसूत्र -[ ४१/१], मूल सूत्र- [ २/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः रेणेति किं बहुना ?, जाग्रन्निशि गोकुलादिषु वाऽप्रतिबध्यमानो यद्यपि चिरेण मिलति बहुभिर्दिवसैस्तथाऽप्युपधिस्तस्य नोपहन्यते, अप्रमादपरत्वात्तस्येति । इदानीं गच्छस्य गमनविधिं प्रतिपादयन्नाह पुरओ मझे तह मग्गओ य ठायंति वित्तपडिलेहा । दाईतुधाराई भावासण्णाइरक्खट्ठा ॥ १७७ ॥ क्षेत्रप्रत्युपेक्षका एषु विभागेषु भवन्ति केचन 'पुरतः' अग्रतो गच्छस्य, केचन मध्ये गच्छस्य, ते हि मार्गानभिज्ञा: 'मार्गतश्च' पृष्ठतश्च तिष्ठन्ति क्षेत्रप्रत्युपेक्षकाः । किमर्थं पुरत एव तिष्ठन्ति ?, 'दाईतुच्चाराई' उच्चारप्रश्रवणस्थानानि दर्शयन्ति गच्छस्य, गच्छस्य 'भावासण्णादिरक्खडत्ति भावासण्णो- अणहियासओ, तद्भक्षणार्थम् एतदुक्तं भवति - उच्चारादिना बाध्यमानस्य ते मार्गज्ञाः स्थण्डिलानि दर्शयन्ति । डहरे भिक्खरगामे अंतरगामंमि ठावए तरुणे । उवगरणगहण असह व ठावए जाणगं चेगं ॥ १७८ ॥ 'हरे भिक्खरगामेत्ति यत्र ग्रामे वासकोऽभिप्रेतः भिक्षा च अटितुमभिप्रेता तस्मिन् 'डहरे' लके ग्रामे सति किं कर्त्तव्यमत आह- 'अंतरगामंमि' अपान्तराल एव यो ग्रामस्तस्मिन् भिक्षार्थं तरुणान् स्थापयेत् 'उवगरणगहणं'ति तदीय|मुपकरणमन्ये भिक्षवो गृह्णन्ति, 'असहू व ठावए'त्ति अथ ते तत्स्थापिंतेतरभिक्षुसत्कमुपकरणं ग्रहीतुं न शक्नुवन्ति ततोऽसहिष्णव एव तत्रान्तरग्रामे भिक्षार्थं स्थाप्यन्ते 'जाणगं चेगं ति ज्ञं चैकं मार्गज्ञं चैकं तेषां मध्ये स्थापयेत् येन सुखेनैवागच्छन्ति दूरुट्ठिअ खुडलए नव भड अगणी य पंत पडिणीए । संघाडेगो धुवकम्मिओ व सुष्णे नवरि रिक्खा ॥ १७९ ॥ अथवाऽसौ वासकभिक्षार्थमभिप्रेतो ग्रामो दूरे स्थितः स्यात् उत्थितो वा उद्वसितः क्षुल्लको वा प्राकू संपूर्णो दृष्टः די For Parts Only ~156~
SR No.004142
Book TitleAagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages459
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_oghniryukti
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy