________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१६६] .. "नियुक्ति: [९८] + भाष्यं [६४...] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
साधुपरीक्षा ९९-१००
प्रत गाथांक नि/भा/प्र ||९८||
श्रीओष
तावद्वाह्या द्रव्यतः प्रत्युपेक्षणा । आह-अनन्तरमाथायां अभ्यन्तरायाः प्रत्युपेक्षणायाः प्रथममुपन्यासः कृतः, ततस्तामेव नियुक्ति व्याख्यातुं युक्तं न तु बाह्यामिति, उच्यते, प्रथमं तावद्वायैव प्रत्युपेक्षणा भवति पश्चादाभ्यन्तरा, अतो वायैव व्याख्या-1 द्रोणीया यते, आह-किमितीत्थमेव नोपन्यासः कृतः१, उच्यते, अभ्यन्तरप्रत्युपेक्षणायाः प्राधान्यख्यापनार्थमादाबुपन्यासः कृतः ।। वृत्तिः
एवं तावद्वारा प्रत्युपेक्षणा द्रव्यतोऽभिहिता, इदानीं वाह्या प्रत्युपेक्षणां भावतः प्रतिपादयमाह
विकहा हसिजग्गाइय भिन्नकहाचकवालछलिअकहा । माणुसतिरिआवाए दायणआयरणया भावे ॥१९॥ KI 'विकथा विरूपा कथा अथवा 'विकथा' स्त्रीभक्तचौरजनपदकथा तां कुर्वन्तो ब्रजन्ति, तथा हसन्त उद्गायन्तश्च ब्रजन्ति,
'भिन्नकह'त्ति मैथुनसंबद्धा राभसिका कथा तां कुर्वन्सो ब्रजन्ति, 'चकवाल'त्ति मण्डलवन्धेन स्थिता व्रजन्ति, 'छलिअकहत्ति षट्पज्ञकगाथा: पठन्तो गच्छन्ति, तथा 'माणुसतिरिआवाए'त्ति मानुषापाते तिर्यगापाते सम्झां व्युत्सृजन्ति, 'दायण'त्ति (दर्शनता) परस्परस्याङ्गुल्या किमपि दर्शयन्ति इयमेव आचरणता दर्शनताऽऽचरणता, भावेत्ति द्वारपरामर्शः, इयं बाह्यभावमङ्गीकृत्य प्रत्युपेक्षणा, एवं बाह्यप्रत्युपेक्षणयाशुद्धानपि साधून दृष्ट्वा प्रविशति, कदाचित्ते गुरोरनादेशेनैव एवं कुर्वन्ति । एतदेव प्रतिपादयन्नाहबाहिं जइवि असुद्धातहावि गंतूण गुरुपरिक्खा ।अहव विसुद्धा तहवि उ अंतोदुबिहा उ पडिलेहा॥१०॥ | बाह्यपत्युपेक्षणामङ्गीकृत्य यद्यष्यशुद्धास्तथाऽपि प्रविश्य गुरोः परीक्षा कर्तव्या, अथवा बाह्यप्रत्युपेक्षणया विशुद्धा एव भवंति तथाऽपि त्वन्तः-अभ्यन्सरतः अभ्यन्तरां प्रत्युपेक्षणामाश्रित्य द्विविधैव प्रत्युपेक्षणा भवति कर्त्तव्या-व्यतो भाव
दीप अनुक्रम [१६६]
॥ ५५॥
~ 113~