________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||R||
दीप
अनुक्रम
[4]
“ओघनिर्युक्ति”- मूलसूत्र - २/१ (मूलं + निर्युक्तिः +वृत्तिः)
मूलं [५] • →
मुनि दीपरत्नसागरेण संकलित
E1
“निर्युक्तिः [१२] + भाष्यं [-] + प्रक्षेपं [३...]" F आगमसूत्र - [४१/१], मूल सूत्र -[२/१] “ओघनिर्युक्ति” मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
चशब्दात्सिद्धनमस्कारः । एवं व्याख्याते सत्याह- किमर्थं सिद्धनमस्कारः पचादभिधीयते ?, अपि त्वर्हन्नमस्कारानन्तरं वाच्य इति, अत्रोच्यते, यानि ह्यर्हदादीनि पदानि तेषां सर्वेषामेव सिद्धाः फलभूताः, अतः फलप्रतिपादनार्थं पश्चादुपन्यास इति, अथवाऽन्नमस्कारेणैव सिद्धनमस्कारोऽप्यभिहितः, कारणे कार्योपचारमङ्गीकृत्य, सिद्धत्वस्य कारणभूतत्वादतामित्यलं प्रसङ्गेनेति ॥ १ ॥ अधुना कृतमङ्गलः सन् संबन्धाभिधेयप्रयोजनत्रयमदर्शनार्थ द्वितीयं गाथासूत्रमाह- 'ओहेण उ' इति, ओघः संक्षेपः समासः सामान्यमित्ये कोऽर्थः तेन ओपेन निर्युक्तिं वक्ष्ये इति योगः, तदनेन गाधाखण्डकेन संबन्धः प्रतिपादितः क्रियाऽऽनन्तर्यलक्षणः, तथा च व्यासक्रियायाः समासक्रिया अनन्तरभूता वर्तते, अतः क्रियाऽऽनन्तर्यलक्षणः संबन्धः, एवं कार्यकारणलक्षणोऽपि द्रष्टव्यः - कार्यम् - ओघनिर्युक्तत्यर्थपरिज्ञानमनुष्ठानं च कारणं तु वचनरूपापन्ना ओघनिर्युक्तिरेव, एवं च साध्यसाधनादयोऽपि द्रष्टव्या इति । तुशब्दो विशेषणे, किं विशिनष्टि ? - ओघेन वक्ष्ये, तुशब्दास्किश्चिद्विस्तरतोऽपि "छप्पुरिमं” इत्यादि, निर्युक्तिं वक्ष्य इति-नि:- आधिक्ये योजनं युक्तिः, सूत्रार्थयोर्योगो नित्यव्यवस्थित एवास्ते वाच्यवाचकतयेत्यर्थः, अधिका योजना निर्युक्तिरुच्यते, नियता निश्चिता वा योजनेति, ततश्च निर्युक्तियुक्तिरित्येवं वक्तव्ये एकस्य युक्तिशब्दस्य लोपं कृत्वा एवमुपन्यासः, यथोष्ट्रमुखी कन्येति । 'वोच्छे' इति वक्ष्ये' अभिधास्य इति यदुक्तं भवति, कुतो वक्ष्ये ? इत्यत आह- 'चरणकरणानुयोगात् चर्यत इति चरणं वक्ष्यमाणलक्षणं व्रतादि क्रियत इति करणं-पिण्डविशुद्धयादि, चरणं च करणं च चरणकरणे तयोरनुयोगश्चरणकरणानुयोगः, अनुयोजनमनुयोगः अनुकूलो वा योगोऽनुयोगः, अथवाऽणु-सूत्रं महान् अर्थः ततो महतोऽर्थस्याणुना सूत्रेण योगोऽनुयोगः, तस्माच्चरणकरणानुयोगात्
For Park Use Only
~10~
nerary org