________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [५] → “नियुक्ति: [१-२] + भाष्यं -1 + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र[२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
मङ्गलादि नि.१-२
प्रत गाथांक नि/भा/प्र
श्रीओघ- नियुक्तिः द्रोणीया वृत्तिः
||२||
प्रतिपादिता भवति, अतः पूर्वत्रयमुल्लञ्चय दशपूर्विणां ग्रहणम् , एवं नवादिष्वपि योज्यम् , एवं व्याख्याते सत्याह परःगुणाधिकस्य वन्दनं. कर्तव्यं, न त्वधमस्य, यत उक्तम्-"गुणाहिए बंदणयं" भद्रबाहुस्वामिनश्चतुर्दशपूर्वधरत्वात् दशपूर्वधरादीनां च न्यूनत्वात्तरिकं तेषां नमस्कारमसौ करोति? इति, अत्रोच्यते, गुणाधिका एव ते, अव्यवच्छित्तिगुणाधिक्यात्, अतो न दोष इति । एवं व्याख्याते सत्याह पर:-एकादशाङ्गसूत्रार्थधारकाणां किमर्थं क्रियते ? इति, उच्यते, इह चरणकरणात्मिका ओघनियुक्तिः, एकादशाङ्गसूत्रार्थधारिणश्च चरणकरणवन्त एव, एकादशानामङ्गानां चरणकरणानुयोगस्वात् , उपयोगित्वेनांशेन तेषां नमस्कार इति । साधूनां किमर्थमिति चेत्, ते तु चरणकरणनिष्पादकाः, तदर्थ चायं सर्व एव प्रयास इति । अथवाऽन्यथा ब्याख्यायते इदं गाथासूत्रम्-अनेन गाथासूत्रेण पञ्चनमस्कारः प्रतिपाद्यते, न च पश्चन-18 मस्कारालघुतरोऽन्योऽस्ति नमस्कार इत्यतो भद्रबाहुस्वामिना स एव कृत इति, कथम् !, 'अरहंते वैदित्ता' इत्यनेनाहन्नमस्कारः, 'चउदसपुबी तहेव दसपुबी एक्कारसंगसुत्तत्थधारए' इत्यनेनाचार्योपाध्यायनमस्कारः, यतः सूत्रप्रदा उपाध्याया अर्थप्रदा आचार्या इति । एवं व्याख्याते सत्याह-एवं तर्हि 'अर्थसूत्रधारकान्' इत्येव वक्तव्यम्, आचार्योपाध्यायपदयोरेवं क्रमेण व्यवस्थितत्वात् , तत्कथमेतत् । इति, अत्रोच्यते, नावश्यमाचार्योपाध्यायैर्भिर्भवितव्यम्, अपि तु कचिदसावेव सूत्र शिष्येभ्यः प्रयच्छत्यसावेव चार्थमतः 'सूत्रार्थधारकान्' इत्येवमुपन्यस्तम् । 'सर्वसाधूंच' इत्यनेन तु साधुनमस्कारः। प्रतिपादितः । सर्वशब्दः प्रत्येकमभिसंबध्यते, ततोऽयमों भवति-सर्वानहतः, एवं चतुर्दशपूर्वधरादीनामपि मीलनीयं,
गुणाधिके वन्दनकं ।
RANASEX
दीप अनुक्रम
REauratonind
M
arayan
~9~