________________
आगम
(४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [५] → “नियुक्ति: [१-२] + भाष्यं -1 + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्तिः
मङ्गलादि
प्रत गाथांक नि/भा/प्र ||२||
0-60-५
श्रीओघ- नियुक्तिं वक्ष्ये, चरणकरणात्मिकामेवेति गम्यते, यथा मृदो घट करोति मृदात्मकमेव, तद्वदनापीति। अथवा चरणं च तत्करणं नियुक्तिः
च २ तस्यानुयोगस्तस्माचरणकरणानुयोगात् नियुक्तिं वक्ष्य इति, तदनेनावयवेनाभिधेयमुक्तं, चरणकरणनियुक्तिरभिधेयेति । द्रोणीया
किंस्वरूपां नियुक्ति वक्ष्ये' इत्यत आह-'अल्पाक्षरां' अल्पान्यक्षराणि यस्यां साऽल्पाक्षरा तामल्पाक्षराम्, अथवा क्रिया-1 वृत्तिः
विशेषणमेतत् , कथं वक्ष्ये । इत्यत आह–'अल्पाक्षर' स्तोकाक्षरं वक्ष्ये, न प्रभूताक्षरमित्यर्थः । किमल्पाक्षरमेव ?, नेत्याह॥४॥ 'महत्थं' महार्थं वक्ष्ये, अथवा महानों यस्याः सा महार्था तां महार्थी वक्ष्ये, तदनेनाभिधेयविशेषणं प्रतिपादितं भवति ।
'अल्पाक्षरां महार्थी' इत्यनेन चतुर्भङ्गिका प्रतिपादिता भवति, एकमल्पाक्षरं प्रभूतार्थं भवति १, तथा अन्यत् प्रभूताक्षरम-|
पार्थ २, तथा प्रभूताक्षरं प्रभूतार्थ ३, अल्पाक्षरमल्यार्थे ४ चेति । किंनिमित्तं वक्ष्ये ? इत्यत आह-'अनुग्रहार्थ' अनुग्रसह-उपकारोऽभिधीयते, अर्थशन्दः प्रयोजनवचनः, तत उपकारप्रयोजनं वक्ष्ये, तदनेन प्रयोजनं प्रतिपादितं द्रष्टव्यम् ।
केषां वक्ष्ये । इत्यत आह-सुविहितानां शोभनं विहितम्-अनुष्ठानं येषामिति ते सुविहिताः-साधवस्तेषां सुविहितानामनुग्रहार्थमोपनियुक्किं वक्ष्य इति योगः । तदनेन गाथासूत्रेण परोपन्यस्ता हेतवो निराकृता भवन्ति । के च हेतवः', निःसंघम्धत्वादय इति । यश्चार्य क्त्वाप्रत्यय उपन्यस्तस्तेन नित्यानित्यकान्तवादयोरसारता प्रतिपादिता भवति, कथम् ।-न नित्यवादे क्त्वाप्रत्ययो युज्यते न वाऽनित्यवादे, किं तु नित्यानित्यवाद एवायं घटत इति, नित्यवादे तावन्न घटते, एक कृत्वा ह्यपरकरणं क्रमः, क्त्वाप्रत्ययश्च विशिष्टपूर्वार्थोऽभिधीयते, 'समानकर्तृकयोः पूर्वकाले क्त्वें' (पा० ३-४-२१) ति वचनात् , नित्यवादे चामच्युतानुत्पन्नस्थिरैकस्वभावं वस्तु, तच्च किं तावत् पूर्वस्वभावत्यागेन द्वितीयां क्रियां करोति
दीप अनुक्रम
~ 11~