________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
आवश्यक
॥ ४६ ॥
भाष्यं [-]
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [-1, मूलं [- /गाथा ], निर्युक्ति: [ ६७ ], मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०] मूलसूत्र - [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
*
पुरुषस्य बाधा पुरुषाबाधा तथा पुरुपाबाधया हेतुभूतया सह वा क्षेत्रतः अवधिर्भवति, अयं भावार्थ:-- असंबद्धोऽवधिः क्षेत्रतः संख्येयो भवति असंख्येयो वा, योजनापेक्षयेति, एवं संबद्धोऽपि । एवमवधिः स्वतन्त्रः पर्यालोचितः, इदानीमबाधया चिन्त्यते— अत्र चतुर्भङ्गिका, तत्र संख्येयमम्तरं संख्येयोऽवधिः, संख्येयमन्तरं असंख्येयोऽवधिः असंख्येयमन्तरं संख्येयोऽवधिः असंख्येयमन्तरमसंख्येयोऽवधिरिति चत्वारोऽपि विकल्पाः संभवन्ति, संबद्धे तु विकल्पाभावः । तथा 'लोके ' चतुर्दशरज्ज्वात्मके पश्चास्तिकायवति, ' अलोके च केवलाकाशास्तिकाये, चशब्दः समुच्चयार्थः, लोके अलोके च संबद्धः, कथम् ? - पुरुषे संबद्धो लोके च — लोकप्रमाणावधिः, पुरुषे न लोके - देशतोऽभ्यन्तरावधिः, न पुरुषे लोके-शून्यो भङ्गः, न लोके न पुरुषे-बाह्यावधिः, इयं भावना---लोकाभ्यन्तरः पुरुषे संबद्धोऽसंबद्धो वा भवति, यस्तु लोके संबद्धः स नियमात्पुरुषे संबद्ध इति, अतो भङ्गचतुष्टयं तृतीयभङ्गशून्यमिति, अलोकसंबद्धस्त्वात्मसंबद्ध एव भवतीति गाथार्थः ॥ ६७ ॥ इदानीं गतिद्वारावयवार्थप्रतिपिपादयिषयाऽऽह
गइनेरहयाईया, हिट्ठा जह वण्णिया तब इहं । इड्डी एसा वणिजइत्ति तो सेसियाओवि ॥ ६८ ॥ व्याख्या -- तत्र गत्युपलक्षिताः सर्व एवेन्द्रियादयो द्वारविशेषाः परिगृह्यन्ते, ततश्च ये गत्यादयः सत्पदप्ररूपणाविधयः द्रव्यप्रमाणादयश्च, ते यथा अघस्तान्मतिश्रुतयोः ' वर्णिताः ' उपदिष्टाः तथैवेहापि द्रष्टव्या इति, विशेषस्त्वयम् - इह ये मतिं प्रतिपद्यन्ते तेऽवधिमपि, किन्त्ववेदकास्तथा अकषायिणोऽप्यवधेः प्रतिपद्यमानका भवन्ति क्षपकश्रेण्य• नेदं प्रत्यन्तरे.
Ja Eucation Internationa
For Pal Pal Use Only
~ 95~
हारिभद्रीयवृत्तिः विभागः १
॥ ४६ ॥