________________
आगम
(४०)
प्रत
सूत्रांक
[8]
दीप
अनुक्रम
[२]
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः)
अध्ययन [ १ ], मूलं [२] / [गाथा- ], निर्युक्ति: [ १०२९], भाष्यं [१८३...]
आवश्यक
हारिभ
दीया
कथं लभ्यत इति तत्रोक्तम्, इह किमर्थ प्रश्न इति पुनरुक्तता, उच्यते, त्रयमध्येतदपुनरुक्तं, कुतः ?, यस्मादुपक्रमे क्षयोपशमात् सामायिकं लभ्यत इत्युक्तम्, उपोद्घाते स एव क्षयोपशमस्तत्कारणभूतः कथं लभ्यत इति प्रश्नः इह पुनर्विशेपित तरः प्रश्नः - केषां पुनः कर्मणां स क्षयोपशम इति प्रत्यासन्नतरकारणप्रश्न इत्यलं प्रसङ्गेन । द्वारमेवोपसंहरन्नाह - एतदेव- अनन्तरोदितं सामायिक करणं यत्तद्भावकरणं 'करणेय'त्ति उपन्यस्त द्वारपरामर्शः । 'भए य'त्ति भयमपि 'यद् भणितं ' ॐ यदुक्तमिति गाधाद्वयार्थः ॥ १०२८-२९ ॥ मूलद्वारगाथायां करणमित्येतद् द्वारं व्याख्यातम्, एतद्व्याख्यानाच्च सूत्रेऽपि करोमीत्ययमवयव इति, अधुना द्वितीयावयवव्याचिख्यासयाऽऽह
॥४७२ ।।
होइ भयंतो भयअंतगो अ रयणा भयस्स छन्भेआ । सव्वंमि वन्निएऽणुकमेण अंतेवि छन्भेआ ॥ १८४॥ (भा०)
व्याख्या - भवति भदन्त इत्यत्र 'भदि कल्याणे सुखे च' अर्थद्वये धातुः 'जविशिभ्यां शत्रू' (उ. पा. ४१३ ) औणादिकप्रत्ययो दृष्टः, तं दृष्ट्वा प्रकृतिरुह्यते, भदि कल्याण इति अनुनासिकलोपश्चेति, तस्यौणादिकविधानात्, ततश्च भदन्त इति भवति, भदन्तः- कल्याणः सुखश्चेत्यर्थः, प्राकृतशैल्या वा भवति भवान्त इति, अत्र भवस्य - संसारस्यान्तस्तेनाऽऽचार्येण क्रियत इति भवान्तकरत्वाद् भवान्त इति, तथा - भयान्तश्चेत्यत्र भयं - त्रासः तमाचार्य प्राप्य भयस्यान्तो भवतीति भयान्तो- गुरुः, भयस्य वाऽन्तको भयान्तक इति, तस्याऽऽमन्त्रणं, 'रचना' नामादिविन्यासलक्षणा, भयस्य 'पड्भेदाः' पटूप्रकाराः -नामस्थापनाद्रव्यक्षेत्रकालभावभेदभिन्नाः, तत्र पश्च प्रकाराः प्रसिद्धाः परं भावभयं सप्तधा - इहलोकभयं परलोकभयमादानभयमकस्माद्भयमश्लोकभयमाजीविकाभयं मरणभयं चेति, तत्रापीहलोके भयं स्वभवाद् यत् प्राप्यते
Forsy
सूत्रस्पर्श०
करणस्व०
वि० १
~947~
॥४७२॥
www.jancibrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक मूलं एवं हरिभद्रसूरि रचित वृत्तिः