________________
आगम
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [१], मूलं [२] / [गाथा- ], नियुक्ति: [१०२८], भाष्यं [१८३]
(४०)
प्रत सूत्रांक
उद्दिसिजंतमाई' शिष्ये-शिष्यविषयम् उद्दिश्यमानादि-उद्दिश्यमानकरणं वाच्यमानकरणं समुद्दिश्यमानकरणम् अनुज्ञायमानकरणं च, 'एयं तुजं कइह'त्ति एतदेव चतुर्विधं तद् यदुक्तं कतिविधमिति गाथार्थः ॥ १८३ ॥ आह-पूर्वमने| कविधं नामादिकरणमभिहितमेव, इह पुनः किमिति प्रश्नः', उच्यते, तत् पूर्वगृहीतस्य करणमनेकविधमुक्तम् , इह पुनर| स्मिन् गुरुशिष्यदानग्रहणकाले चतुर्विधं करणमिति, पूर्व वा करणमविशेषेणोकम् , इह गुरुशिष्यक्रियाविशेषाद् विशेषि
तमिति न पुनरुक्तम् , अथवाऽयमेव करणस्यावसरः, पूर्वत्रानेकान्तद्योतनार्थ विन्यासः कृत इति विचित्रा सूत्रस्य कृति|रित्यलं विस्तरेण, द्वारं ६ । कथमिति द्वारमिदानी, तत्रेय गाथाकह सामाइअलंभो? तस्सब्वविघाइदेसवाघाई। देसविघाईफड्डगअणंतवुड्डीविसुद्धस्स ॥१०२८ ॥ एवं ककारलंभो सेसाणवि एवमेव कमलंभो(दा०)। एअंतु भावकरणं करणे अ भए अजं भणिअं॥१०२९॥ | अस्या व्याख्या-'कथं' केन प्रकारेण सामायिकलाभ इति प्रश्नः, अस्योत्तरं-तस्य-सामायिकस्य सर्वविधातीनि देशविघातीनि च स्पर्द्धकानि भवन्ति, इह सामायिकावरणं-ज्ञानावरणं दर्शनावरणं [मिथ्यात्व] मोहनीयं च, अमीषां द्विविधानि स्पर्द्धकानि-देशघातीनि सर्वघातीनि च, तत्र सर्वघातिषु सर्वेषूद्घातितेषु सत्सु देशघातिस्पर्द्धकानामप्यनन्तेषूदूघातितेष्वनन्तगुणवृद्ध्या प्रतिसमयं विशुस्वमानः शुभशुभतरपरिणामो भावतः ककारं लभते, तदनन्तगुणवृद्ध्यैव प्रति|समयं विशुद्धमानः सन् रेफमित्येवं शेषाण्यपि, अत एवाऽऽह-देशघातिस्पर्धकानन्तवृद्ध्या विशुद्धस्य सतः॥ किं?'एव'मित्यादि,-पूर्वार्द्ध गतार्थम् , आह-उपक्रमद्वारेऽभिहितमेतत्-क्षयोपशमात् जायते, पुनश्चोपोद्घातेऽभिहितमेतत्
दीप अनुक्रम
s
ataniorary.org
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~ 946~