________________
आगम
(४०)
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [६३], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
हारिभद्री यवृत्तिः विभागः१
प्रत
2
॥४४॥
सूत्राक
आवश्यक- बाह्यलाभा, अधिः प्रक्रमात् गम्यते, अस्मिन् बाह्यलाभे सति-बाह्यावधिप्राप्तौ सत्यां 'भाग्यो' विकल्पनीयः, कोऽसौ ?
-उत्पादः प्रतिपात 'तदुभयगुणश्च एकसमयेनेति सम्बन्धः, किंविषय इति', आह-'द्रव्य' इति द्रव्यविषयः, एवं क्षेत्र- कालभावविषय इति, अपिचशब्दाः पूरणसमुच्चयार्थाः । अयं भावार्थः-एकस्मिन् समये द्रव्यादौ विषये बाह्यावधेः कदाचिदुत्पादो भवति कदाचिद्ययः कदाचिदुभय, दावानलदृष्टान्तेन, यथा हि दावानलः खल्वेककाल एवैकतो
दीप्यतेऽन्यतश्च ध्वंसत इति, तथा अवधिरपि एकदेशे जायते अन्यत्र प्रच्यवत इति गाथार्थः ॥ १२॥ द्वितीयगाथा| व्याख्या-इह द्रष्टुः सर्वतः संबद्धः प्रदीपप्रभानिकरवदवधिरभ्यन्तरोऽभिधीयते तस्य लब्धिरभ्यन्तरलब्धिः तस्या
मभ्यन्तरलब्धौ तु सत्यां अभ्यन्तरावधिप्राप्तावित्यर्थः । तुशब्दो विशेषणार्थः, किं विशिनष्टि -तच्च तदुभयं च तदुभय, उत्पातप्रतिपातोभयं नास्त्येकसमयेन, 'द्रव्यादौ विषये' इत्यनुवर्तते, किं तर्हि -उत्पादः प्रतिपातो वा एकतर एव एकसमयेन, अपिशब्दस्यैवकारार्थत्वात् । अयं भावार्थः-प्रदीपस्येवोत्पाद एव प्रतिपातो वा एकसमयेन भवति अभ्यन्तरावधेर्न तूभयं, अप्रदेशावधित्वादेव, न ह्येकस्य एकपर्यायेणोत्पादध्ययौ युगपत्स्यातां अङ्गुल्याकुश्चनप्रसारणवदिति गाथार्थः॥६३ ॥ प्रतिपादितं प्रतिपातोत्पादद्वारं, इदानी यदुक्तं 'संखेज मणोदधे, भागो लोगपलियस्स' (४२) इत्यादि, तत्र द्रव्यादित्रयस्य परस्परोपनिवन्ध उक्तः, इदानीं द्रव्यपर्याययोः प्रसङ्गत एवोत्पादप्रतिपाता धिकारे प्रतिपादयन्नाह
संख्येयो मनोजयविषयेऽपधी भागो लोकपस्योपमयोः * अवधेः तस्मिन् । गुणन विभा. पादः प्रति समवनेव.
दीप
+CCICC
अनुक्रम
~91~