________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [१/गाथा-], नियुक्ति: [९२७], भाष्यं [१५१...]
(४०)
प्रत
सूत्राक
MI॥ ९२६ ॥ उक्तस्तावदहनमस्कारः, साम्प्रतं सिद्धनमस्कार उच्यते, तत्र सिद्ध इति कः शब्दार्थः ।, उच्यते-'विध संराद्धौ।
राध साध संसिद्धौ' 'पिधू शास्त्रे माङ्गल्ये 'ति, सिध्यति स्म सिद्धः, यो येन गुणेन निष्पन्नः-परिनिष्ठितो न पुनः साधनीयः सिद्धौंदनवत् स सिद्ध इत्यर्थः, स च सिद्धः शब्दसामान्याक्षेपतः, अर्थतस्तावच्चतुर्दशविधा, तत्र नामस्थापनादव्यसिद्धान् व्युदस्य शेषनिक्षेपप्रतिपादनायाह
कम्मे १ सिप्पे अ २ विजाय ३, मंते ४ जोगे अ५ आगमे ६।
अत्य ७ जत्ता ८ अभिप्पाए ९, तवे १० कम्मक्खए ११ इय ॥ ९२७ ॥ व्याख्या-कर्मणि सिद्धः कर्मसिद्धः-कर्मणि निष्ठां गत इत्यर्थः, एवं शिल्पसिद्धार विद्यासिद्धः ३ मन्त्रसिद्धः ४ योगसिद्धः ५ आगमसिद्धः ६ अर्थसिद्धः ७ यात्रासिद्धः ८ अभिप्रायसिद्धः ९ तपःसिद्धः १० कर्मक्षयसिद्ध ११ श्चेति गाथासमासार्थः ॥ ९२७ ॥ अवयवार्थ तु प्रतिद्वारमेव वक्ष्यति, तत्र नामस्थापनासिद्धौ सुखावसेयौ, द्रव्यसिद्धो निष्पन्न ओदनः |सिद्ध इत्युच्यते, साम्प्रतं कर्मसिद्धादिव्याचिख्यासया कर्मादिस्वरूपमेव प्रतिपादयन्नाह
कम्मं जमणायरिओवएसयं सिप्पमन्नहाभिहिअं। किसिवाणिजाईयं घडलोहाराइभेअं च ॥ ९२८ ॥ व्याख्या-इह कर्म यदनाचार्योपदेशजं सातिशयमनन्यसाधारणं गृह्यते, 'शिल्पम्' अन्यथाऽभिहितमिति, कोऽर्थः - इह यदाचार्योपदेशजं ग्रन्थनिबन्धाद्वोपजायते सातिशय कर्मापि तच्छिल्पमुच्यते, तत्र भारवहन कृषिवाणिज्यादि कर्म घटकारलोहकारादिभेदं च शिल्पमिति गाथार्थः ॥ ९२८ ॥ साम्प्रतं कर्मसिद्धं सोदाहरणमभिधित्सुराह
दीप
अनुक्रम
40-50
[१]
ainatorary.om
मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: 'सिद्ध' शब्दस्य अर्थ, सदृष्टांत तेषाम् भेदा: एवं सिद्धानां नमस्कारस्य फलम्
~818~