________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
Jus Educat
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः)
अध्ययन [ - ], मूलं [- /गाथा - ], निर्युक्तिः [ ८४८ ], भाष्यं [ १५०...]
व्याख्या - अभ्युत्थाने सति सम्यग्दर्शनलाभो भवतीति क्रिया, विनीतोऽयमिति साधुकथनात्, तथा 'विनये' अञ्जलिप्रग्रहादाविति, 'पराक्रमे' कपायजये सति, साधुसेवनायां च सत्यां कथञ्चित् तत्क्रियोपलब्ध्यादेः सम्यग्दर्शनलाभो भवतीत्यध्याहारः, विरताविरतेश्च विरतेश्चेति गाथार्थः ।। ८४८ ॥ कथमिति द्वारं गतं । तदित्थं लब्धं सत् कियच्चिरं भवति कालं ?, जघन्यत उत्कृष्टतश्चेति प्रतिपादयन्नाह -
| सम्मत्तस्स सुयस्स य छावडी सागरोवमाई ठिई। सेसाण पुचकोडी देसूणा होइ उक्कोसा ।। ८४९ ।। व्याख्या – सम्यक्त्वस्य श्रुतस्य च षट्षष्टिः सागरोपमाणि स्थितिः, कथं? 'विजयाइस दो वारे गयस्स तिष्णछुए व छावडी । पारजम्मपुषकोडी मुहुत्तमुकोसओ अहियं ॥ १ ॥' 'शेषयोः' देशविरतिसर्वविरतिसामायिकयोः पूर्वकोटी देशोना भवति, 'उक्कोस त्ति उत्कृष्टस्थितिकालः, जघन्यतस्त्वाद्यत्रयस्यान्तर्मुहूर्तं सर्वविरतिसामायिकस्य समयः, चारित्रपरिणामा|रम्भसमयानन्तरमेवाऽऽयुष्कक्षयसम्भवात्, देशविरतिप्रतिपत्तिपरिणामस्त्वान्तमहूर्तिक एव, नियमितप्राणातिपातादिनिवृतिरूपत्वात, उपयोगापेक्षया तु सर्वेषामन्तर्मुहुर्त्तः सर्वजीवानां तु सर्वाणि सर्वदैवेति गाथार्थः ॥ ८४९ ॥ द्वारम् ॥ अधुना कइत्ति द्वारं व्याख्यायते -कतीति कियन्तः वर्तमानसमये सम्यक्त्वादिसामायिकानां प्रतिपत्तारः प्राक्प्रतिपन्नाः प्रतिपतिता वेति, अत्र प्रतिपद्यमानकेभ्यः प्राक्प्रतिपन्नप्रतिपतितसम्भवात्तानेव प्रतिपादयन्नाह
सम्मत्तसविरया पलियस्स असंखभागमेत्ता उ । सेदीअसंखभागो सुए सहस्सग्गसो विरई ।। ८५० ॥ व्याख्या -- सम्यक्त्वदेशविरताः प्राणिनः क्षेत्रपलितस्यासवेयभागमात्रा एव, इयं भावना - क्षेत्रपलितासङ्ख्येयभागे
Fürsten
janibrary org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०] मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
~724~