________________
आगम
“आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८१९], भाष्यं [१५०...]
(४०)
प्रत
सूत्राक
-45
श्रुतयोः प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येवेति । द्वारम् । 'ओहेण विभागेण य णाणी पडिबजए चउरो'त्ति ओघेन-सामान्येन ज्ञानी प्रतिपद्यते चत्वार्यपि नयमतेन, पूर्वप्रतिपन्नस्त्वस्त्येव, विभागेन चाभिनिबोधिकश्रुतज्ञानी युगपदाद्यसामायिकद्वयप्रतिपत्ता सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येवेति, उपरितनसामायिकद्धयस्यापि प्रतिपद्यमानकः सम्भवति, इतरस्त्वस्त्येवेति, अवधिज्ञानी सम्यक्त्वश्रुतसामायिकयोः पूर्वप्रतिपन्न एव न प्रतिपद्यमानकः, देशविरतिसामायिकं तु न प्रतिपद्यते, गुणपूर्वकत्वात् तदवाप्सेः, स्यात् पुनः पूर्वप्रतिपन्नः, सर्वविरतिसामायिकं तु प्रतिपद्यते, पूर्वप्रतिपन्नोऽपि भवति, मनःपर्यायज्ञानी देशविरतिरहितस्य त्रयस्य पूर्वप्रतिपन्न एव, न प्रतिपद्यमानकः, युगपद्धा सह तेन चारित्रं प्रतिपद्यते। तीर्थकृद्, उक्तं च-"पडिवन्नमि चरित्ते चउणाणी जाव छउमत्थो" त्ति, भवस्थः केवली पूर्वप्रतिपन्नः सम्यक्त्वचारित्रयोः न तु प्रतिपद्यमानक इति गाथार्थः ॥ ८१९ ॥ गतं द्वारद्वयं, साम्प्रतं योगोपयोगशरीरद्वाराभिधित्सयाहचउरोऽवि तिविहजोगे उवओगदुगंमि चउर पडिवजे । ओरालिए चउकं सम्मसुय विउब्धिए भयणा ॥८२०॥
व्याख्या 'चत्वार्यपि' सामायिकानि सामान्यतः 'त्रिविधयोगे' मनोवाकायलक्षणे सति प्रतिपत्तिमाश्रित्य विवक्षितकाले सम्भवन्ति, (ग्रंथानम् ८५०० ) प्राक्प्रतिपन्नता स्वधिकृत्य विद्यन्त एव, विशेषतस्वौदारिककाययोगवति योगत्रये चत्वार्युभयथाऽपि, वैक्रियकाययोगवति तु सम्यक्त्वश्रुते उभयथाऽपि, आहारककाययोगवति तु देशविरतिरहितानि त्रीणि सम्भवन्ति, तैजसकार्मणकाययोग एव केवले अपान्तरालगतावाद्यं सामायिकद्धयं प्राक्प्रतिपन्नतामधिकृत्य स्यात् ,
प्रतिपने चारित्रे चतुज्ञांनी यावच्छमस्या
दीप
अनुक्रम
56-5-45
5
AmEaia
n d
andiorary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~674 ~