________________
आगम
“आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८१६], भाष्यं [१५०...]
(४०)
प्रत
सूत्राक
न्यतरत् प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्त्येवेत्यध्याहारः, अपिशब्दो विशेषणे, किं विशिनष्टि -भावजागरः द्वयोः प्रथमयोः पूर्वप्रतिपन्न एव, द्वयस्य तु प्रतिपत्ता भवतीति, निद्रासुप्तस्तु चतुर्णामपि पूर्वप्रतिपन्नो भवति, न तु प्रतिपद्यमानकः, भावसुप्तस्तूभयविकलः, नयमताद्वा प्रतिपद्यमानको भवति, अलं विस्तरेण । जन्म त्रिविधम्-अण्डजपोतजजरायुजभेद|भिन्नं, तत्र यथासङ्ग्य 'तिग तिग चउरो भवे कमसो' त्ति अण्डजाः-हंसादयः त्रयाणां प्रतिपद्यमानकाः सम्भवन्ति, पूर्वप्रतिपन्नास्तु सन्त्येव, पोतजाः-हस्त्यादयोऽप्येवमेव, जरायुजाः-मनुष्यास्तेऽपि चतुर्णामित्थमेव, औपपातिकास्तु प्रथमयोद्धयोरेवमिति गाथार्थः ।। ८१६ ॥ स्थितिद्वारमधुनाऽऽह| उक्कोसयहितीए पडिवजते य णत्थि पडिवण्णो । अजहण्णमणुकोसे पडिवजंते य पडिवण्णे ॥ ८१७॥
व्याख्या-आयुर्वर्जानां सप्तानां कर्मप्रकृतीनामुत्कृष्टस्थिति वश्चतुर्णामपि सामायिकानां 'पडिवजते य णत्थि पडिवण्णो' त्ति प्रतिपद्यमानको नास्ति प्रतिपन्नश्च नास्तीति, चशब्दस्य व्यवहितः सम्बन्धः, आयुषस्तूत्कृष्टस्थितौ द्वयोः पूर्वप्रतिपन्न इति, अजघन्योत्कृष्टस्थितिरेवाजघन्योत्कृष्टः स्थितिशब्दलोपात्, 'पडिवर्जते य पडिवण्णो' त्ति, स हि चतुर्णामपि प्रतिपद्यमानकः सम्भवति, प्रतिपन्नश्चास्त्येव, जघन्यायुष्कस्थितिस्तु न प्रतिपद्यते, न पूर्वप्रतिपन्नः, क्षुलकभवगत इति, शेषकर्मराशिजघन्यस्थितिस्तु देशविरतिरहितस्य सामायिकत्रयस्य पूर्वप्रतिपन्नः स्याद्, दर्शनसप्तकातिकान्तः क्षपका | अन्तकृत् केवली, तस्य तस्यामवस्थायां देशविरतिपरिणामाभावात् , जघन्यस्थितिकर्मवन्धकत्वाच्च जघन्यस्थितित्वं तस्य,
दीप
अनुक्रम
JamEai
n
d
M
andionary.org
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~672 ~