________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
Educato
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः)
अध्ययन [ - ], मूलं [- /गाथा - ], निर्युक्तिः [ ८१२], भाष्यं [ १५०...]
'विरतिः' समग्रचारित्रात्मिका, पूर्वप्रतिपन्नापेक्षया तु सदा भवत्येव, 'विरताविरतिश्च' देशचारित्रात्मिका तिर्यक्षु, भवतीत्यनुवर्तते, भावना मनुष्यतुल्येति गाथार्थः ॥ ८१२ ॥ भव्यसंज्ञिद्वारावयवार्थाभिधित्सयाऽऽहभवसिद्धिओ उ जीवो पडिवज्जइ सो चउण्हमण्णयरं । पडिसेहो पुण असण्णिमीसए सण्णि पडिवले ॥ ८१३॥
व्याख्या - भवसिद्धिको भव्योऽभिधीयते भवसिद्धिकस्तु जीवः प्रतिपद्यते 'चतुर्णी' सम्यक्त्वसामायिकादीनाम् 'अन्यतरत्' एकं द्वे त्रीणि सर्वाणि वा, व्यवहारनयापेक्षयेत्थं प्रतिपाद्यते, न तु निश्चयतः केवलसम्यक्त्व सामायिकसम्भवोऽस्ति, श्रुतसामायिकानुगतत्वात् तस्य, एवं संइयपि, यत आह-संन्नि पडिवज्जे, पूर्वप्रतिपन्नकस्तु भव्यसंज्ञिषु विद्यत एव, प्रतिषेधः पुनरसंज्ञिनि मिश्रकेऽभव्ये च, इदमत्र हृदयम्-अन्यतमसामायिकस्य प्रतिपद्यमानकान् प्राक् प्रतिपन्नान् वाssश्रित्य प्रतिषेधः असंज्ञिनि 'मिश्रके' सिद्धे, यतोऽसौ न संज्ञी नाप्यसंज्ञी न भव्यो नाप्यभव्यः अतो मिश्रः, अभव्ये च, पुनः शब्दस्तु पूर्वप्रतिपन्नोऽसंज्ञी सास्वादनो जन्मनि सम्भवतीति विशेषणार्थः, संज्ञी प्रतिपद्यत इति व्याख्यातमेवेति गाथार्थः ॥ ८१३ ॥ गतं द्वारद्वयम् । उच्छ्रासदृष्टिद्वारद्वयाभिधित्सयाऽऽह
ऊसासगणीसा सग मीसग पडिसेह दुबिह पडिवण्णो । दिडीइ दो णया खलु ववहारो निच्छओ चेव ||८१४॥ दारं व्याख्या - उच्छ्रसितीति उच्छ्रासकः, निःश्वसितीति निःश्वासकः, आनापानपर्याप्तिपरिनिष्पन्न इत्यर्थः, स हि चतुर्णामपि प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्यस्त्येवेति वाक्यशेषः, मिश्रः खल्वानापानपर्याप्याऽपर्याप्तो भण्यते, तत्र प्रतिपत्तिमङ्गीकृत्य प्रतिषेधः, नासौ चतुर्णामपि प्रतिपद्यमानकः सम्भवतीति भावना, 'दुविहपडिवन्नो' त्ति स एव द्विवि
For Parts Use Only
incibrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
~670~