________________
आगम
(४०)
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [३०], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
प्रत
सूत्राक
उत्पद्यते च पनका, स्वदेहदेशे स सूक्ष्मपरिणामः । समयत्रयेण तस्यावगाहना यावती भवति ॥५॥ |तावजघन्यमवधेरालम्बनवस्तुभाजनं क्षेत्रम् । इदमित्थमेव मुनिगणसुसंप्रदायात् समवसेयम् पश्चभिः कुलकम् ____ अत्र कश्चिदाह-किमिति महामत्स्यः ? किं वा तस्य तृतीयसमये निजदेहदेशे समुत्पादः ? त्रिसमयाहारकत्वं वा कल्प्यत इति !, अत्रोच्यते, स एव हि महामत्स्यः त्रिभिः समयैरात्मानं संक्षिपन् प्रयत्नविशेषात् सूक्ष्मावगाहनो
भवति, नान्यः, प्रथमद्वितीयसमययोश्च अतिसूक्ष्मः चतुर्थादिषु चातिस्थूर: त्रिसमयाहारक एव च तद्योग्य इत्यतस्तद्दहणमिति । अन्ये तव्याचक्षते-त्रिसमयाहारक इति, आयामविष्कम्भसंहारसमयद्वयं सूचिसंहरणोत्पादसमयश्चेत्येते
त्रयः समयाः, विग्रहाभावाचाहारक एतेषु, इत्यत उत्पादसमय एव त्रिसमयाहारकः सूक्ष्मः पनकजीवो जघन्यावगाहनश्च, अतस्तत्प्रमाणं जघन्यमवधिक्षेत्रमिति, एतच्चायुक्तं, त्रिसमयाहारकत्वस्य पनकजीवविशेषणत्वात्, मत्स्यायामविष्कम्भ|संहरणसमयद्वयस्य च पनकसमयायोगात्, त्रिसमयाहारकत्वाख्यविशेषणानुपपत्तिप्रसङ्गात् इति, अलं प्रसङ्गेनेति गाथार्थः ॥३०॥ एवं तावत् जघन्यमवधिक्षेत्रमुक्तं, इदानीं उत्कृष्टमभिधातुकाम आहसब्बबहुअगणिजीवा, निरन्तरं जत्तियं भरिजासु । खित्तं सव्वदिसागं, परमोही खित्त निद्दिडो ॥ ३१ ॥ __ब्याख्या-सर्वेभ्यो विवक्षितकालावस्थायिभ्योऽनलजीवेभ्य एव बहवः सर्ववहवः, न भूतभविष्ययः, नापि शेषजीवेभ्यः, कुतः!, असंभवात् , अग्नयश्च ते जीवाश्च अग्निजीवाः, सर्वबहवश्च तेऽग्निजीवाश्च सर्वबह्वग्निजीवाः, निरन्तरं इति क्रिया
भरिजसु १-४-५
दीप
अनुक्रम
~62~