________________
आगम
“आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७२७], भाष्यं [१२३...]
(४०)
प्रत
सूत्राक
60-6500-50-55-
2424
| व्याख्या-निमकं च ग्रामं महिलास्तूपं च कूपतटमित्यर्थः, शून्यं दृष्ट्वा, तथा नीचं च काका: 'ओलिन्ति' त्ति गृहाणि प्रति परिभ्रमन्ति, तांश्च दृष्ट्वा विद्यात् यथा जाता भैक्षस्य 'हरहरे' त्यतीव भिक्षाप्रस्ताव इति, पाठान्तरं वा 'नीयं च काए ओलिन्ते' रष्ट्रत्यनुवर्तत इति गाथार्थः । अप्रशस्तदेशकालस्वरूपाभिधित्सयाऽऽहनिम्मच्छियं महुं पायडोणिही खजगावणो सुण्णो। जायंगणे पसुत्ता पउत्धवइया य मत्ता य॥७२८ ॥ दारं॥
व्याख्या-निर्माक्षिक मधु, प्रकटो निधिः, खाद्यकापणः शून्यः, कुल्लूरिकापण इति भावार्थः, अतो मध्वादीनां ग्रहणप्रस्तावः, तथा या चाङ्गणे प्रसुप्ता प्रोषितपतिका च मत्ता च तस्या अपि ग्रहणं प्रति प्रस्ताव एवेति, आसवेन मदनाकुलीकृतत्वात्तस्या इति गाथार्थः । दारं । इदानीं कालकाला प्रतिपाद्यते-कालस्य-सत्त्वस्य श्वादेः कालो-मरणं कालकाला, अमुमेवार्थ प्रतिपादयन्नाहकालेण कओ कालो अम्हं सज्झायदेसकालंमि । तो तेण हओ कालो अकालकालं करेंतेणं ॥ ७२९ ॥
व्याख्या-कालेन' शुना 'कृतः कालः' कृतं मरणम् अस्माकं स्वाध्यायदेशकाले ततोऽनेन हतः कालः-भग्नः स्वाध्यायकालः, 'अकाले' अप्रस्तावे 'कालं' मरणं कुर्वतेति गाथार्थः। द्वारम् । इदानीं प्रमाणकालः प्रतिपाद्यतेतत्राद्धाकालविशेष एव मनुष्यलोकान्तर्वर्ती विशिष्टव्यवहारहेतुः अहर्निशरूपः प्रमाणकाल इति, आह चदुविहो पमाणकालो दिवसपमाणं च होइ राई अ।चउपोरिसिओ दिवसो राती चउपोरिसी चेव ॥७३० ॥ व्याख्या-द्विविधः प्रमाणकाला-दिवसप्रमाणं च भवति रात्रिश्च, चतुष्पौरुषिको दिवसः रात्रिश्चतुष्पौरुष्येव, ततश्च
दीप
अनुक्रम
Palanmitrary on
मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~ 552 ~