________________
आगम (४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [ - ], मूलं [- /गाथा - ], निर्युक्तिः [ ६३२ ], भाष्यं [ ११९...]
तावरपुण्यमेवापचीयमानं दुःखकारणं, तस्य सुखहेतुत्वेनेष्टत्वात् स्वल्पस्यापि स्वल्पमुख निर्वर्त्तकत्वात् तथा चाणीयसो हेमपिण्डादणुरपि सौवर्ण एव घटो भवति, न मार्त्तिक इति, न च तदभावो दुःखहेतुः, तस्य निरुपाख्यत्वात्, न च सुखाभाव एव स्वसत्ताविकलो दुःखं, तस्यानुभूयमानत्वात् ततश्च स्वानुरूपकारणपूर्विका दुःखप्रकर्षानुभूतिः, प्रकर्षानुभूतित्वात् पुण्यप्रकर्षानुभूतिवत् न च पुण्यलेश एवानुरूपं कारणमस्या इति, एवं दृष्टान्तोऽप्याभासितथ्यः, केवलपुण्यवादनिरासः । केवलपापपक्षेऽपि विपरीतमुपपत्तिजालमिदमेव वाच्यं नापि तत्सर्वथाऽन्योऽन्यानुविद्धस्वरूपं निरंशवस्त्वन्तरमेव, सर्वथा सम्मिश्रसुखदुःखाख्य कार्यप्रसङ्गाद्, असदृशश्च सुखदुःखानुभवो, देवानां सुखाधिक्यदर्शनात्, नारकाणां च दुःखाधिक्यदर्शनात् न च सर्वथा सम्मिश्रैकरूपस्य हेतोरल्पबहुत्वभेदेऽपि कार्यस्य स्वरूपेण प्रमाणतोऽल्पबहुत्वं विहाय भेदो युज्यते, न हि मेचककारणप्रभवं कार्य्यमन्यतमवण्णत्कटतां विभर्त्ति तस्मात् सुखातिशयस्यान्यन्निमित्तमन्यच्च दुःखातिशयस्येति । न च सर्वथैकस्य सुखातिशयनिबन्धनांशवृद्धिदुःखातिशयकारणांशहान्या सुखातिशयप्रभवाय कल्पयितुं न्याय्या, भेदप्रसङ्गात्, तथा च यद्वृद्धावपि यस्य वृद्धिर्न भवति तत्ततो भिनं प्रतीतमेव, एवं सर्वथैकरूपता पुण्यपापयोर्न घटते, कर्मसामान्यतया त्वविरुद्धाऽपि, यतः - 'सात (सद्वेद्य) सम्यक्त्व हास्य रतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्यमन्यत्पाप ( तत्त्वा० अ०८ सू० २६) मिति, सर्व चैतत्कर्म, तस्माद्विविके पुण्यपापे स्त इति । संसारिणश्च सत्त्वस्यैतदुभयमप्यस्ति, किञ्चित्कस्यचिदुपशान्तं किश्चित्क्षयोपशमतामुपगतं किञ्चित्क्षीणं किश्चिदुदीर्णम्, अत एव च सुखदुःखातिशय वैचित्र्यं जन्तूनामिति । -
Education intimation
For Parts Only
www.ncbrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
~508~