________________
आगम
“आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६२०], भाष्यं [११९...]
(४०)
हारिभद्री यवृत्ति विभागः१
प्रत
सूत्राक
आवश्यक- युगपदुभयस्येति !, किं चातः, न तावत्पूर्वमात्मप्रतियुज्यते, निर्हेतुकत्वाद् , व्योमकुसुमवत् , नापि कर्मणः प्राक् प्रसूतिः, ॥२४९॥
कर्तुरभावात्, न चाकर्तृकं कर्म भवति, युगपत्प्रसूतिरप्यकारणत्वादेव न युज्यते, न चानादिमत्यप्यात्मनि बन्धो युज्यते, भावा बन्धकारणाभावाद् गगनस्येव, इत्थं चैतदङ्गीकर्तव्यम् , अन्यथा मुक्तस्यापि बन्धप्रसङ्गः, तथा च सति नित्यमोक्षत्वान्मो-
क्षानुष्ठानवैयर्यम् , अथ द्वितीयः पक्षः, तथापि नात्मकर्मवियोगो भवेद् , अनादित्वाद्, आत्माकाशसंयोगवद्, इत्थं मोक्षो न घटते, तथा देहकर्मसन्तानानादित्वाच्च कुतो मोक्ष इति ते मतिः। तत्र वेदपदानामयमर्थः-स एप-मुक्तात्मा विगताः छानस्थिकज्ञानादयो गुणा यस्य स विगुणः विभुः-विज्ञानात्मना सर्वगतः न बध्यते-मिथ्यादर्शनादिवन्धकारणाभावात् संसरति वा-मनुजादिभवेषु कमेंबीजाभावात्, नेत्यनुवर्तते, न मुच्यते, मुक्तत्वात् , मोचयति वा तदा खलूप-1 देशदानविकलत्वात् , नेत्यनुवर्तते, तथा संसारिकसुखनिवृत्त्यर्थमाह-नवा एष-मुक्तात्मा बाह्यं-सकन्दनादिजनितम् आभ्यन्तरम्-आभिमानिक वेद-अनुभवात्मना विजानातीत्येवमेतानि मुक्तात्मस्वरूपाभिधायकाम्पेव, शेषाणि तु सुगमानि, तथा जीवकर्मणोरप्यनादिमतोरनादिमानेव संयोगो, धर्माधर्मास्तिकायाकाशसंयोगवदिति, न चानादित्वात्संयोगस्य वियोगाभावः, यतः काञ्चनोपलयोः संयोगोऽनादिसन्ततिगतोऽपि क्षारमृत्पुटपाकादिद्रव्यसंयोगोपायतो विघटते, एवं जीवकर्मणोरपि ज्ञानदर्शनचारित्रयोगोपायाद्वियोग इति, न चानादित्वात्सर्वस्य कर्मणो जीवकृतत्वानुपपत्तिः, यतो
वर्तमानतया मिथ्यादर्शनादिसव्यपेक्षात्मनोपात्तं कृतमित्युच्यते, सर्व च वर्तमानत्वेन मिथ्यादर्शनादिसव्यपेक्षात्मोपात्त ६ कर्म अनादि च, कालवत्, यथा हि यावानतीतः कालस्तेनाशेषेण वर्तमानत्वमनुभूतमथ चासावनादिरिति, न चामृतस्य
दीप
अनुक्रम
T
॥२४९॥
JABERatinintamational
Swlanniorary.org
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~501~