________________
आगम
“आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [- /गाथा-], नियुक्ति: [६१२], भाष्यं [११९...]
(४०)
आवश्यक
॥२४७॥
हारिभद्रीयवृत्तिः |विभागः१
प्रत
सुत्रांक
किंच-आलयात्पीतादिसंवेदनजननशक्कयो भिन्ना वा स्युरभिन्ना वा !, यद्यभिन्नाः सर्वैकत्वप्रसङ्गा, एकालयाभेदाभ्यथानुपपत्तेः, ततश्च कुतस्तासां पीतादिप्रतिभासहेतुता , प्रयोगश्च-नीलविज्ञानहेतुतया परिकल्पिता शक्तिर्न तद्धर्मा, शक्त्यन्तररूपत्वात् , शक्त्यन्तरस्वात्मवत् , अथ भिन्नास्तथाप्यवस्तुसत्यो वा स्युः वस्तुसत्यो वा?, यद्यवस्तुसत्यः समूहवत्कुतः प्रत्ययत्वम् ?, अथ वस्तुसत्यो बाह्योऽर्थः केन वार्यत इति !, एवमणूनां तुल्यरूपग्रहणं तदाभासज्ञानोत्पत्तेः, न च विषयबलोपजातसंवेदनाकारस्य विषयानेदाभेदविकल्पद्वारेणानुपपत्तिर्भाव्या, विशिष्टपरिणामोपेतार्थसन्निधावात्मनः कालक्षयोपशमादिसव्यपेक्षस्य नीलादिविज्ञानमुत्पद्यते, तथापरिणामादू, इत्थं चैतदङ्गीकर्तव्यम् , अन्यथा नीलात्संवेदनानीलसंवेदनान्तरानुपपत्तिः, प्रागुपन्यस्तविकल्पयुगलकसम्भवादित्येवं परमाणुतुल्यरूपग्रहोऽविरुद्धः, अतुल्यरूपं तु योगिगम्यत्वात् विशिष्टक्षयोपशमाभावात्सर्वथा न परिगृह्यते, न च परमाणूनां बहुत्वेऽपि विशेषाभावाद् घटशरावादिबुद्धेः तुल्यत्वप्रसङ्गो, विशेषाभावस्यासिद्धत्वात् , तथा च परमाणव एव विशिष्टपरिणामवन्तो घट इति, न च परमाणुसमुदायातिरिक्तानि भूतानि इत्यलं प्रसङ्गेन । छिपकमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समणो पचईओ पंचहिँ सह खंडियसएहि ॥ ११३॥ व्याख्या-पूर्ववत् । इति चतुर्थों गणधरः समाप्तः । ते पब्वइए सोउं सुहमो आगच्छई जिणसगासं । वचामि ण बंदामी बंदित्ता पजुवासामी ॥ १४ ॥
दीप
अनुक्रम
R॥२४७॥
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~ 497~