________________
आगम
“आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६१२], भाष्यं [११९...]
(४०)
प्रत
सूत्राक
कर*
नामयमर्थः, 'स्वमोपमं वै सकल मित्यादीन्यध्यात्मचिन्तायां मणिकनकाङ्गनादिसंयोगस्यानियतत्वादस्थिरत्वादसारत्वामाद्विपाककटुकत्वादास्थानिवृत्तिपराणि वर्तन्ते, न तु तदत्यन्ताभावप्रतिपादकानि इति, तथा 'द्यावा पृथिवी'त्यादीनि त।
सुगमानि, तथा सौम्य !न च चक्षुरादिविज्ञाने परमाणवो नावभासन्ते, तेषां तुल्यातुल्यरूपत्वात् , तुल्यरूपस्य च चक्षुरादि-13 विज्ञाने प्रतिभासनात्, न च तुल्यं रूपं नास्त्येव, तदभावे खल्वेकपरमाणुव्यतिरेकेणान्येषामणुत्वाभावप्रसङ्गात् , न च तद् अन्यव्यावृत्तिमात्रं परिकल्पितमेव, स्वरूपाभावेऽन्यव्यावृत्तिमात्रतायां तस्य खपुष्पकल्पत्वप्रसङ्गात्, तथा चाशे-12 पदार्थव्यावृत्तमपि खपुष्पं स्वरूपाभावान्न सत्ता धारयति, न च तद्रूपमेव सजातीयेतरासाधारणं तदन्यव्यावृत्तिः, तस्य तेभ्यः स्वभावभेदेन व्यावृत्तेः, स्वभावभेदानभ्युपगमे च सजातीयेतरभेदानुपपत्तेः, सजातीयैकान्तब्यावृत्ती च विजातीयव्यावृत्तावनणुत्ववदणुत्वाभावप्रसङ्गः, भावे च तुल्यरूपसिद्धिरिति, न चेयमनिमित्ता तुल्यबुद्धिः, देशादिनिय| मेनोत्पत्तेः, न च स्वमबुद्ध्या व्यभिचार, तस्या अप्यनेकविधनिमित्तबलेनैव भावात्, आह च भाष्यकार:-"अणुभूय दिह चिन्तिय सुय पयइवियार देवयाऽणूया । सुमिणस्स निमित्ताई पुण्णं पावं च नाभावो ॥१॥" न च भूताभावे स्वमास्वमगन्धर्षपुरपाटलिपुत्रादिविशेषो युज्यते, न चालयविज्ञानगतशक्तिपरिपाकसमनन्तरोपजातविकल्पविज्ञानसामर्थ्यमस्यास्तु-| ल्यबुद्धेः कारणं, स्वलक्षणादस्वलक्षणानुपपत्तेः, नापि पारम्पर्येण तदुत्पत्तियुज्यते, स्वलक्षणसामान्यलक्षणातिरिक्तवस्त्व&भावेन पारम्पर्यानुपपत्तेः, बाह्यनीलायभावे च शक्तिविपाकनियमो न युज्यते, नियामकसहकारिकारणाभावात् ।
1 अनुभूतं आई चिन्तितं श्रुतं प्रकृतिविकारः देवताऽनूपः । समय निमित्तानि पुण्यं पापं च नाभावः ॥ १॥
दीप
अनुक्रम
JABERatinentationa
wlanmitrary.org
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~ 496~