SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र अध्ययन [-], मूलं [- /गाथा-], नियुक्ति: [५९०], (४०) भाष्यं [११९...] प्रत सूत्राक |असङ्ख्येयभवेषु यदभवद्भविष्यति वा, यद्वा वस्तुजातं परस्तु पृच्छेत् तत्सर्व कथयतीति, अनेनाशेषाभिलाप्यपदार्थप्र|तिपादनशक्तिमाह, किं बहुना ?-'न च' नैव, णमिति वाक्यालङ्कारे, 'अणाइसेसित्ति अनतिशयी अवध्याद्यतिशयरहित इत्यर्थः,विजानाति यथा एष गणधरछद्मस्थ इति,अशेषप्रश्नोत्तरप्रदानसमर्थत्वात्तस्येति गाथार्थः ॥५९०॥ समवसरणं समत्तं । एवं तावत्समवसरणवक्तव्यता सामान्येनोक्ता, प्रकृतमिदानी प्रस्तूयते-तत्र भगवतः समवसरणे निष्पन्ने सत्यत्रान्तरे | देवजयशब्दसम्मिश्रदिव्यदुन्दुभिशब्दाकर्णनोत्फुल्लनयनगगनावलोकनोपलब्धस्वर्गवधूसमेतसुरवृन्दानां यज्ञपाटकसमीपाभ्यागतजनानां परितोषोऽभवद्-अहो विष्टं, विग्रहवन्तः खलु देवा आगता इत्याह|तं दिव्वदेवघोसं सोऊणं माणुसा तहिं तुहा । अहो(हु) जण्णिएण जडं देवा किर आगया इहई ॥ ५९१ ।। व्याख्या-तं दिव्यदेवघोपं श्रुत्वा मनुष्याः 'तत्र' यज्ञपाटे तुष्टाः, 'अहो विस्मये, यज्ञेन यजति लोकानिति याज्ञिकः | तेनेष्टं, कुतः-एते देवाः किल आगता अत्रेति, किलशब्दः संशय एव, तेषामन्यत्र गमनादिति गाथार्थः॥५९१ ॥ तत्र च यज्ञपाटे वेदार्थविदः एकादशापि गणधरा ऋत्विजः समन्वागता इत्याह चएक्कारसवि गणहरा सब्वे उग्णयविसालकुलवंसा । पावाएँ मज्झिमाए समोसढा जन्नवाडम्मि ॥५९२॥ व्याख्या-एकादशापि गणधराः समवस्ताः यज्ञपाट इति योगः, किंभूता इत्याह-'सर्वे' निरवशेषाः उन्नताः-प्रधानजातित्वात् विशालाः-पितामहपितृव्याधनेकसमाकुलाः कुलाम्येव वंशाः-अन्वया येषां ते तथाविधा, पापायां दीप अनुक्रम ainatorary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 482~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy