________________
आगम
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं [- /गाथा-], नियुक्ति: [३१६], भाष्यं [३०...],
(४०)
प्रत
सूत्राक
गमनिका-ऋषभो वृषभसमगतिर्गृहीत्या अभिग्रह 'परमघोरं' परमा-परमसुखहेतुभूतत्वात् घोरः-प्राकृतपुरुषैः कर्तुमशक्यत्वात् तं, 'व्युत्सृष्टत्यक्तदेहो विहरति ग्रामानुग्रामं तु व्युत्सृष्टो-निष्पतिकर्मशरीरतया, तथा चोक्तम्-'अच्छिपि |नो पमजिज्जा, णोऽविय कंडविया मुणी गाय' त्यक्तः-खलु दिव्याधुपसर्गसहिष्णुतया, शेष सुगममिति गाथार्थः ॥३१६ ॥ स एवं भगवांस्तैरात्मीयैः परिवृतो विजहार, न च तदाऽद्यापि भिक्षादानं प्रवर्तते, लोकस्य परिपूर्णत्वादर्थ्यभावाच्च, तथा चाह मूलभाष्यकार:
णवि ताव जणो जाणइ का भिक्खा ? केरिसा व भिक्खयरा।
ते भिक्खमलभमाणा वणमझे तावसा जाया ॥ ३१ ॥ (मू० भा०) गमनिकानापि तावजनो जानाति-का भिक्षा ? कीदृशा वा भिक्षाचरा इति, अतस्ते भगवत्परिकरभूता भिक्षामलभमानाः क्षुत्परीषहार्ता भगवतो मौनव्रतावस्थिताद् उपदेशमलभमानाः कच्छमहाकच्छावेवोक्तवन्तः-अस्माकमनाथानां भवन्तौ नेताराविति, अतः कियन्तं कालमस्माभिरेवं क्षुत्पिपासोपगतरासितव्यं ?, तावाहतुः-वयमपि न विद्मः, यदि भगवान् अनागतमेव पृष्टो भवेत्-किमस्माभिः कर्त्तव्यं ? किं वा नेति, ततः शोभनं भवेत् , इदानीं तु एतावद्युज्यतेभरतलज्जया गृहगमनमयुक्तमाहारमन्तरेण चासितुं न शक्यत इत्यतो वनवासो नः श्रेयान् , तत्रोपवासरताः परिशटितपरिणतपत्रायुपभोगिनो भगवन्तमेव ध्यायन्तस्तिष्ठाम इति संप्रधार्य सर्वसंमतेनैव गङ्गानदीदक्षिणकूले रम्यवनेषु वल्कल
। अक्ष्यपि नो प्रमार्जयेत् नापि च कण्डूयेत् मुनिर्गानम्,
दीप
अनुक्रम
JABERatinintamational
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति ऋषभदेवस्य आहार अन्तराय कथनं एवं तं भिक्षाप्राप्ते: कथा
~288~