________________
आगम
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१९९], भाष्यं [४...],
(४०)
CH+M
प्रत
सूत्राक
गमनिका-आभोगयित्वा' उपयोगपूर्वकेन अवधिना विज्ञाय 'शको' देवराज उपागतः, 'तस्य' भगवतः करोति 'अभिषेक' राज्याभिषेकमिति, तथा मुकुटाद्यलङ्कारं च, आदिशब्दात् कटककुण्डलकेयूरादिपरिग्रहः, चशब्दस्य व्यवहितः संबन्धः, नरेन्द्रयोग्यं च 'से' तस्य करोति, अत्रापि वर्तमानकालनिर्देशप्रयोजनं पूर्ववदवसेयं, पाठान्तरं वा 'आभोएउं सक्को आगंतुं तस्स कासि अभिसेयं । मउडाइअलंकारं नरेंदजोग्ग च से कासी ॥१॥" भावार्थः पूर्ववदेवेति गाथार्थः ॥ १९९ ॥ अत्रान्तरे ते मिथुनकनरास्तस्मात् पद्मसरसः खलु नलिनीपत्रैरुदकमादाय भगवत्समीपमागत्य तं चालत-18 विभूषितं दृष्ट्वा विस्मयोत्फुल्लनयनाः किंकर्तव्यताब्याकुलीकृतचेतसः कियन्तमपि कालं स्थित्वा भगवत्पादयोः तदुदकं । निक्षिप्तवन्त इति, तानेवंविधक्रियोपेतान् दृष्ट्वा देवराट् अचिन्तयत्-अहो खलु विनीता एते पुरुषा इति वैश्रवणं यक्षराx|| जमाज्ञापितवान्-इह द्वादशयोजनदीर्घा नवयोजनविष्कम्भां विनीतनगरी निष्पादयेति, स चाज्ञासमनन्तरमेव दिव्यभ
वनप्राकारमालोपशोभितां नगरी चक्रे । अमुमेवार्थमुपसंहरनाह-अत्रान्तरे । भिसिणीपत्तेहिअरे उदयं घिनुं छुहंति पाएस।साहु विणीआ पुरिसा विणीअनयरी अह निविट्ठा ॥२०॥ | गमनिका-बिसिनीपत्ररितरे उदकं गृहीत्वा 'छु तित्ति' प्रक्षिपन्ति, वर्तमाननिर्देशः प्राग्वत् , पादयोः, देवराजोडि[भिहितवान-साधु विनीताः पुरुषा विनीतनगरी अथ निविष्टेति गाथार्थः ॥ २०॥ गतमभिषेकद्वारम् , इदानी संग्रहद्वाराभिधित्सयाऽऽह
* विनीता.. + भिसिनी. देवराडमि०.
दीप
अनुक्रम
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
~ 258~