________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
आवश्यक
॥१०९॥
S
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [-], मूलं [- /गाथा - ], निर्युक्तिः [१४८ ], भाष्यं [२]
व्याख्या—ततः स्वायुष्कक्षये सति च्युत्वा देवलोकादिहैव भारते वर्षे इक्ष्वाकुकुले 'जातः' उत्पन्नः ऋषभसुतसुतो मरीचिः सामान्येन ऋषभपौत्र इति गाथार्थः ॥ १८ ॥ यतश्चैवमतः
इक्खागकुले जाओ इक्खागकुलस्स होइ उप्पत्ती । कुलगरवंसेऽईए भरहस्स सुओ मरीइति ॥ १४९ ॥
व्याख्या - इक्ष्वाकूणां कुलं इक्ष्वाकुकुलं तस्मिन्, 'जातः' उत्पन्नः, भरतस्य सुतो मरीचिरिति योगः, तत्र सामान्यऋषभपौत्रत्वाभिधाने सति इदं विशेषाभिधानमदुष्टमेव, स च कुलकरवंशेऽतीते जातः, तत्र कुलकरा वक्ष्यमाणलक्षणास्तेषां वंशः कुलकरवंशः प्रवाह इति समासः, तस्मिन्नतीते- अतिक्रान्ते इति, यतश्चैवमत इक्ष्वाकुकुलस्य भवति उत्पत्तिः, वाच्येति वाक्यशेषः इत्ययं गाथार्थः ॥ १४९ ॥ तत्र कुलकरवंशेऽतीत इत्युक्तं, अतः प्रथमं कुलकराणामेवोत्पत्तिः प्रतिपाद्यते, यत्र यस्मिन्काले क्षेत्रे च तत्प्रभवस्तन्निदर्शनाय चेदमाह - ( ग्रन्थाग्रम् ३००० ) ओसप्पिणी इमीसे तइयाऍ समाऍ पच्छिमे भागे । पलिओ महभाए सेसंमि उ कुलगरुप्पत्ती ॥ १५० ॥
अजभर हमझिल्लुतिभागे गंगसिंधुमज्झमि । इत्थ बहुमज्झदेसे उप्पण्णा कुलगरा सन्त ॥ १५१ ॥ प्रथम गाथागमनिका --- अवसर्पिण्यामस्यां वर्त्तमानायां या तृतीया समा- सुषमदुष्पमासमा, तस्याः पश्चिमो भागस्तस्मिन् | कियन्मात्रे पल्योपमाष्टभाग एव शेषे तिष्ठति सति कुलकरोत्पत्तिः संजातेति वाक्यशेष इति गाथार्थः ॥ १५० ॥ द्वितीय
• वंशः प्रवाहा
For Parts Only
हारिभद्रीयवृत्तिः विभागः १
~ 221 ~
॥१०९॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति