________________
आगम
(४०)
प्रत सूत्रांक
[सू.५]
दीप
अनुक्रम [६८]
Education
आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः)
अध्ययनं [६], मूलं [सू. ५] / [गाथा-], निर्युक्ति: [ १५६१...] भाष्यं [२४३...],
गुणव्रतान्यभिधीयन्ते तानि पुनस्त्रीणि भवन्ति, तद्यथा - दिगवतं उपभोगपरिमाणं अनर्थदण्डपरिवर्जनमिति, तत्राद्यगुणन्नतस्वरूपाभिधित्सयाऽऽह
दिसिवए तिविहे पनन्ते-उदिसियए अहोदिसिवए तिरियदिसिवए, दिसिवयस्स समणो० इमे पश्च० तंजहाउदिसिपमाणाइकमे अहोदिसिपमाणाइकमे तिरियदिसिपमाणाइक्कमे खितबुद्धी सहअंतरद्धा ६ ॥ ( सूत्र )
दिशो ह्यनेकप्रकाराः शास्त्रे वर्णिताः, तत्र सूर्योपलक्षिता पूर्वा शेषाश्च पूर्वदक्षिणादिकास्तदनुक्रमेण द्रष्टव्याः, तत्र दिशां संबन्धि दिक्षु वा व्रतमेतावत्सु पूर्वादिविभागेषु मया गमनाद्यनुष्ठेयं न परत इत्येवंभूतं दिग्नतं एतचौघतः त्रिविधं प्रज्ञठं तीर्थकर गणधरैः, तद्यथेत्युदाहरणोपन्यासार्थः, ऊर्ध्वादिगू ऊर्ध्वं दिग् तत्सम्बन्धि तस्यां वा व्रतं ऊर्ध्वं दिग्नतं एतावती दिगूर्द्ध पर्वताथारोहणादवगाहनीया न परत इत्येवंभूतं इति भावना, अधो दिग् अधोदिक् तत्सम्बन्धि तस्यां वा व्रतं अधोदिग्व्रतं - अर्वाग्दिग्रत्रतम्, एतावती दिगध इन्द्रकूपाद्यवतरणादवगाहनीया न परत इत्येवंभूतमिति हृदयं, तिर्यक् दिशस्तिर्यगूदिशः पूर्वादिकास्तासां सम्बन्धि तासु वा व्रतं तिर्यग्व्रतं एतावती दिगू पूर्वेणावगाहनीया एतावती दक्षिणेनेत्यादि, न परत इत्येवंभूतमिति भावार्थः । अस्मिंश्च सत्यवगृहीतक्षेत्राद् बहिः स्थावरजङ्गमप्राणिगोचरो दण्डः परित्यक्तो भवतीति गुणः । इदमतिचाररहितमनुपालनीयमतोऽस्यैवातिचारानभिधित्सुराह-'दिसिवयस्स समणो० दिग्नतस्य उक्तरूपस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथा-ऊर्ध्वदिकूपमाणातिक्रमः यावत्प्रमाणं परिगृहीतं तस्यातिलङ्घनमित्यर्थः एवमन्यत्रापि भावना कार्या, अधोदिक्प्रमाणातिक्रमः, तिर्यगूदिकप्रमाणातिक्रमः, क्षेत्रस्य वृद्धिः
For Funny
1566 6
~ 1655~
very g
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः अथ दिक्परिमाणं व्रतस्य वर्णनं क्रियते