________________
आगम
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१०९], भाष्यं [-]
(४०)
प्रत
सूत्राक
ते तथाविधाः तेषामुदये सति, किम् ।-सम्यग्दर्शनलाभ, भव्या लभन्ते इति शेषः, अयं च वाक्यशेषो विरताविरतिविशेषणे तुशब्दसंसूचितो द्रष्टव्यः, तथा चाह-विरमणं विरतं तथा न विरतिः अविरतिः विरतं चाविरतिश्च यस्यां निवृत्ती सा तथोच्यते, देशविरतिरित्यर्थः, तां विरताविरतिं नतु लभन्ते, तुशब्दात् सम्यग्दर्शनं तु लभन्ते इति गाथार्थः ॥१०९॥ | तइयकसापाणुदए पचक्खाणावरणनामधिजाणं । देसिकदेसविरई चरित्तलंभ न उ लहति ॥११॥
व्यायाविरतिलक्षणतृतीयगुणपातित्वात् क्षपणक्रमाद्वा तृतीयाः, कषायाः' पूर्ववत , तृतीया ते कपायाश्चेति। समासः, कपायाः क्रोधादय एवं चत्वारस्तेषां 'उदय' इति पूर्ववत्, किंविशिष्टानां ?-आवृण्वन्तीत्यावरणा, प्रत्याख्यान सर्वविरतिलक्षणं तस्यावरणाः प्रत्याख्यानावरणाः प्रत्याख्यानावरणा एव नामधेयं येषां ते तथाविधास्तेषां । आह-नन्वप्रत्याख्याननामधेयानामुदये न प्रत्याख्यानमस्तीत्युक्त, नत्रा प्रतिपिद्धत्वात् , इहापिच आवरणशब्देन प्रत्याख्यानप्रति
धात् क एषां प्रतिविशेष इति, उच्यते, तत्र न सर्वनिषेधवचनो वत्तेते, इह पुनः आउने मर्यादेषदर्थवचनत्वात् ईपदमर्यादया वाऽऽवृण्वन्तीत्यावरणाः, ततश्च सर्वविरतिनिषेधार्थ एवायं वर्तते न देशविरतिनिषेधे खल्यावरणशब्द इति,
तथा चाह-देशश्चैकदेशश्च देशैकदेशी, तत्र देशः-स्थूरपाणातिपातः, एकदेशः तस्यैव यथादृश्यवनस्पतिकायातिपातः, 1 तयोः विरतिः-निवृत्तिः तां, लभन्ते इति वाक्यशेषः, अत्रापि वाक्यशेषः चारित्रविशेषणे तुशब्दाक्षिप्त एव द्रष्टव्यः, यत
आह-'चारित्र' इति 'धर गतिभक्षणयो' रिति, अस्य 'अर्तिलूघूसूखनिसहिचर इत्रः' (पा.३-२-१८४) इतीत्रप्रत्ययान्तस्य चरित्रमिति भवति, चरन्त्यनिन्दितमनेन इति चरित्रंक्षयोपशमरूपं तस्य भावश्चारित्रं, एतदुक्तं भवति-इहान्यजन्मोपात्ता
दीप
अनुक्रम
Sirwsaneiorary.org
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~ 158~