________________
आगम (४०)
प्रत
सूत्रांक
[सू.]
दीप
अनुक्रम [४७]
आ० १३२
Jus Education
आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्ति:+वृत्ति:) अध्ययनं [५], मूलं [सू.] / [गाथा १-७], निर्युक्ति: [ १५२३ ...] भाष्यं [ २३१... ],
अस्य व्याख्या - सर्वलोकेऽर्हचैत्यानां करोमि कायोत्सर्गमिति, तत्र लोक्यते दृश्यते केवलज्ञानभास्वतेति लोकः चतु दशरज्ज्वात्मकः परिगृह्यते इति उक्तं च- "धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत् क्षेत्रम् । तैर्द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ॥ १ ॥” सर्वः खल्वधस्तिर्यगूर्ध्वभेदभिन्नः, सर्वश्वासौ लोकश्च २ तस्मिन् सर्वलोके, त्रैलोक्ये इत्यर्थः, तथाहि अधोलोके चमरादिभवनेषु तिर्यगूलोके द्वीपाचलज्योतिष्कविमानादिषु सन्त्येवार्हचैत्यानि ऊर्द्धलोके सौधर्मादिषु सन्त्येवाईचैत्यानि, तत्राशोकाद्यष्टमहाप्रातिहार्यरूपां पूजामर्हन्तीत्यर्हन्तः- तीर्थकरास्तेषां चैत्यानि - प्रतिमालक्षणानि अर्हचैत्यानि, इयमत्र भावना-चित्तम्-अन्तःकरणं तस्य भावे कर्मणि वा वर्णदृढादिलक्षणे व्यत्रि कृते चैत्यं भवति, तत्रार्हतां प्रतिमाः प्रशस्तसमाधिचित्तोत्पादनादर्हच्चैत्यानि भण्यन्ते तेषां किं ?-करोमीत्युत्तमपुरुषैकवचननिर्देशेनात्माऽभ्युपगमं दर्शयति, किमित्याह - कायः शरीरं तस्योत्सर्ग :- कृताकारस्य स्थानमीनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासमधिकृत्य परित्याग इत्यर्थः तं कायोत्सर्ग, आह-कायस्योत्सर्ग इति षष्ठ्या समासः कृतः, अर्हचैत्यानामिति प्रागुक्तं, तत् किमई चैत्यानां कायोत्सर्ग करोति ?, नेत्युच्यते, षष्ठीनिर्दिष्टं तत्पदं पदद्वयमतिक्रम्य मण्डूकप्लुत्या वन्दनप्रत्ययमित्यादिभिः सम्बध्यते, ततोऽर्हचैत्यानां वन्दनप्रत्ययं करोमि कायोत्सर्गमिति द्रष्टव्यम्, तत्र वन्दनम्-अभिवादनं प्रशस्तकायवाङ्मनःप्रवृत्तिरित्यर्थः, तत्प्रत्ययं तन्निमित्तं, तत्फलं मे कथं नाम कायोत्सर्गादित्यतोऽर्थमित्येवं सर्वत्र भावना कार्या, तथा 'पूयणवत्तियाए' त्ति पूजनप्रत्ययं - पूजानिमित्तं, तत्र पूजनं - गन्धमास्यादिभिरभ्यर्चनं, तथा 'सकारवत्तियाए' त्ति सत्कारप्रत्ययं - सत्कारनिमित्तं तत्र प्रवरवस्त्राभरणादिभिरभ्यचैनं सरकारः, आह-यदि पूजनसत्कारप्रत्ययः कायोत्सर्गः क्रियते
For Fans Only
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
~ 1575 ~
by org