________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[३६.. ]
आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्ति:+वृत्ति:)
अध्ययनं [५], मूलं [-] / [गाथा - ], निर्युक्ति: [ १४७८] भाष्यं [२३१...],
॥७७४॥
आवश्यक - ॐ न भवति जिणदिहं शाणं तिविहेवि जोगंमि' तदेतन्न भवति यत् परेणाभ्यधायि, कुतः १, यस्माज्जिहारिभ- नैर्दृष्टं ध्यानं त्रिविधेऽपि योगे-मनोवाक्कायव्यापारलक्षण इति गाथार्थः ॥ १४६७ ॥ किं तु १, कस्यचित् द्रीया कदाचित् प्राधान्यमाश्रित्य भेदेन व्यपदेशः प्रवर्त्तते, तथा चामुमेव न्यायं प्रदर्शयन्नाह - 'वायाई घाऊणं' वातादिधातूनां आदिशब्दात् पित्तश्लेष्मणोर्यो यदा भवत्युत्कटः- प्रचुरो धातुः कुपित इति स प्रोच्यते उत्कटत्वेन प्राधान्यात्, 'न य इतरे तत्थ दो नस्थिति न चेतरौ तत्र द्वौ न स्त इति गाथार्थः ॥ १४६८ ॥ 'एमेव य जोगाणं' एवमेव च योगानां मनोवाक्कायानां त्रयाणामपि यो यदा उत्कटो योगस्तस्य योगस्य तदा तस्मिन् काले निर्देशः, 'इयरे तत्थेक दो व णवा' इतरस्तत्रैको भवति द्वौ वा भवतः, न वा भवत्येव, इयमत्र भावना केवलिनः वाचि उत्कटायां कायोऽप्यस्ति अस्मदादीनां तु मनः कायो न वेति, केवलिनः शैलेश्यवस्थायां काययोगनिरोधकाले स एव केवल इति, अनेन च शुभयोगोत्कटत्वं तथा निरोधश्च द्वयमिति (मपि) ध्यानमित्यावेदित [व्य]मिति गाथार्थः ।। १४६९ ॥ इत्थं य उत्कटो योगः तस्यैवेतर सद्भावेऽपि प्राधान्यात् सामान्येन ध्यान [त्व]मभिधायाधुना विशेषेण त्रिप्रकारमध्युपदर्शयन्नाह - 'काएवि य' कायेऽपि च अध्यात्मं अघि आत्मनि वर्त्तत इति अध्यात्मं ध्यानमित्यर्थः, एकाग्रतया एजनादिनिरोधात्, 'वायाए 'ति तथा वाचि अध्यात्मं एकाग्रतयैवायतभाषानिरोधात्, 'मणस्स चैव जह होइ' त्ति मनसश्चैव यथा भवत्यध्यात्मं एवं कायेऽपि वाचि चेत्यर्थः एवं भेदनाभिधायाधुनैकादावपि दर्शयन्नाह - काय वामनोयुक्तं त्रिविधं अध्यात्ममाख्यातवन्त
Education
For Paint Use Only
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
~ 1550 ~
कायोत्सर्ग निक्षेपः
१७७४॥
ibrary.org