________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः)
अध्ययनं [-], मूलं [- / गाथा-], निर्युक्तिः [९०], भाष्यं [-]
मुखति 'ज्ञानवृष्टि' इति कारणे कार्योपचारात् शब्दवृष्टि, किमर्थ ?-भव्याश्च ते जनाश्च भव्यजनाः तेषां विबोधनं तदर्थं तन्निमित्तमितियावत् । आह - कृतकृत्यस्य सतस्त स्वकथनमनर्थकं, प्रयोजनविरहात्, सति च तस्मिन् कृतकृत्यत्वानुपपत्तेः, तथा सर्वज्ञत्वाद्वीतरागत्वाच्च भव्यानामेव विबोधनमनुपपन्नं, अभव्याविबोधने असर्वज्ञत्वावीतरागत्वप्रसङ्गादिति, अत्रोच्यते, प्रथमपक्षे तावत् सर्वथा कृतकृत्यत्वं नाभ्युपगम्यते, भगवतः तीर्थ करनामकर्मविपाकानुभावात् तस्य च धर्मदेशनादिप्रकारेणैवानुभूतेः, द्वितीयपक्षे तु त्रैलोक्यगुरोर्धर्मदेशनक्रिया विभिन्नस्वभावेषु प्राणिषु तत्स्वाभाव्यात विवोधाविबोधकारिणी पुरुषोलूककमलकुमुदादिषु आदित्यप्रकाशनक्रियावत् उक्तं च वदिमुख्येन त्वद्वाक्यतोऽपि केषाविदबोध इति मेऽद्भुतम् । भानोर्मरीचयः कस्य, नाम नालोक हेतवः १ ॥ १ ॥ न चाद्भुतमुलुकस्य, प्रकृत्या क्लिष्टचेतसः । स्वच्छा अपि तमस्त्वेन, भासन्ते भास्वतः कराः ॥ २ ॥ इत्यादि" यथा वा सुवैद्यः साध्यमसाध्यं व्याधिं चिकित्समानः प्रत्याचक्षाणश्च नातज्ज्ञः न च रागद्वेषवान्, एवं साध्यमसाध्यं भव्याभव्यकर्मरोगमपनयन्ननपनयंश्च भगवान्नातज्ज्ञो न च | रागद्वेषवानिति अलं प्रसङ्गेनेति गाथार्थः ॥ ८९ ॥ द्वितीयगाथाव्याख्या -- 'तां' इति तां ज्ञानकुसुमवृष्टिं, बुद्धिमयेनबुद्ध्यात्मकेन, बुद्धिरेवात्मा यस्यासौ बुद्ध्यात्मकस्तेन, केन ?-पटेन, 'गणधराः प्रागुक्ताः 'ग्रहीतुं' आदातुं 'निरवशेषां' संपूर्ण ज्ञानकुसुमवृष्टिं, बीजादिबुद्धित्वाद्गणधराणां ततः किं कुर्वन्ति :- भाषणानि भाषितानि, भावे निष्ठाप्रत्ययः, तीर्थकरस्य भाषितानि तीर्थकरभाषितानि इति समासः, कुसुमकल्पानि, ग्रथ्नन्ति विचित्रकुसुममालावत्, किमर्थमित्याह-प्रगतं प्रशस्तै प्रधानमादौ वा वचनं प्रवचनं द्वादशाङ्गं गणिपिटकं तदर्थ, कथमिदं भवेदितियावत्, प्रवक्तीति 1 श्रीमद्भिः सिद्धसेन दिवाकरपादैर्द्वात्रिंशिकायामिति प्रसिद्धिः
साकथन ०. ०भावकत्वात् भवात्.
Education intemational
For Parts Only
www.ncbrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
~138~