________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
दीप
अनुक्रम
[२६]
आवश्यकहारिभदीया ॥ ६५७ ॥
आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा ], निर्युक्तिः [१२७३...] भाष्यं [ २०६...],
वर्जितालस्यो ग्रामनगरकुलादिष्यनियतवसतिर्निर्ममत्वः प्रतिमासं चर्यामाचरेदिति ९, 'निसीहिय'त्ति निषीदन्त्यस्यामिति निषद्या-स्थानं तत् स्त्रीपशुपण्डकविवर्जितां वसतिं सेवेत पश्चाद्भाविनस्त्विष्टानिष्टोपसर्गान् सम्यगधिसहेत १०, 'सेज्जत्ति शय्या संस्तारकः - चम्पकादिपट्टो मृदुकठिनादिभेदेनोच्चावचः प्रतिश्रयो वा पांशुत्करमचुरः शिशिरो बहुधर्मको वा तत्र नोद्विजेत ११, 'अकोस' त्ति आक्रोशः अनिष्टवचनं तच्छ्रुत्वा सत्येतरालोचनया न कुप्येत १२, 'वह'त्ति वधः - ताडनं पाणिपाणिलताकशादिभिः, तदपि शरीरमवश्यंतया विध्वंसत एवेति मत्वा सम्यकू सहेत, स्वकृतकर्मफलमुपनतमित्येवमभिसंचिन्तयेत् १३, 'आयण'त्ति याचनं-मार्गणं, भिक्षोहिं वस्त्रपात्रान्नपानप्रतिश्रयादि परतो लब्धव्यं सर्वमेव, शाली-नतया च न याज्यां प्रत्याद्रियते, साधुना तु प्रागल्भ्यभाजा सजाते कार्ये स्वधर्मकायपरिपालनाय याचनमवश्यं कार्यमिति, एवमनुतिष्ठता याज्यापरीपहजयः कृतो भवति १४, 'अलाभ'त्ति याचितालाभेऽपि प्रसन्नचेतसैवाविकृतवदनेन भवितव्यं १५, 'रोग'त्ति रोगः - ज्वरातिसार कासश्वासादिस्तस्य प्रादुर्भावे सत्यपि न गच्छनिर्गताश्चिकित्सायां प्रवर्तन्ते, गच्छवा सिनस्वल्पबहुत्वालोचनया सम्यकू सहन्ते, प्रवचनोक्तविधिना प्रतिक्रियामाचरन्तीति एवमनुतिष्ठता रोगपरी हजयः कृतो भवति १६, 'तणफास'त्ति अशुपिरतृणस्य दर्भादेः परिभोगोऽनुज्ञातो गच्छनिर्गतानां गच्छनिवासिनां च, तत्र येषां शयनमनुज्ञातं निष्पन्नानां ते तान् दर्भान् भूमावास्तीर्य संस्तारोत्तरपट्टकी च दर्भाणामुपरि विधाय शेरते, चौरापहृतोपकरणा वा प्रतनुसंस्तारपट्टकावत्यन्त जीर्णत्वात्, तथाऽपि तं परुपकुशदर्भादितृणस्पर्श सम्यक् सहेत १७,
४ प्रतिक
मणाध्य०
२२ परि पहा
~ 1317 ~
॥६५७॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः