________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७३...] भाष्यं [२०६...],
(४०)
प्रत सूत्रांक [सू.]
20CTRES
दीप अनुक्रम [२४]
प्यादेरेव सकाशात् भयमिहलोकभयं, विजातीयात्तु तिर्यग्देवादेः सकाशाद्य परलोकभयम्, आदीयत इत्यादान-धन | तदर्थं चौरादिभ्यो यद्यं तदादानभयम् , अकस्मादेव-बाह्यनिमित्तानपेक्षं गृहादिष्वेवावस्थितस्य राध्यादौ भयम् अकस्माद्यं, 'आजीवे' ति आजीविकाभयं निर्धनः कथं दुर्भिक्षादावात्मानं धारयिष्यामीत्याजीविकाभयं, मरणाद्यं मरणभयं प्रतीतमेव, 'असिलोगोत्ति अश्लाघाभयम्-अयशोभयमित्यर्थः, एवं क्रियमाणे महदयशो भवतीति तनयान प्रवतत इति गाथाशकलाक्षरार्थः ॥ मदः-मान [ग्रन्थाग्रं० १६५००] स्तस्य स्थानानि-पर्याया भेदामदस्थानानि, इह च प्रतिक्रमामीति वर्तते, अष्टभिर्मदस्थानः करणभूतैयों मया दैवसिकोऽतिचारः कृत इति, एवमन्येष्वपि सूत्रेवायोग्य, कानि पुनरष्टौ मदस्थानानि ?, अत आह सहणिकार:
जाईकुलबलरूवे तवईसरिए सुए लाहे ॥१॥ अस्य व्याख्या-कश्चिन्नरेन्द्रादिः प्रत्रजितो जातिमदं करोति, एवं कुलबलरूपतपऐश्वर्यश्रुतलाभेष्वपि योज्यमिति ॥ नवभिब्रह्मचर्यगुप्तिभिः, शेषं पूर्ववत्, ताश्चेमाः
वसहिकहनिसिजिदिये कुईतरपुर्वकीलियर्पणीए । मामायाहरिविभूसणा य नव बंभगुतीयो ॥१॥ व्याख्या-ब्रह्मचारिणा तद्गुप्त्यनुपालनपरेण न स्त्रीपशुपण्डकसंसक्ता वसतिरासेवनीया, न स्त्रीणामेकाकिनां कथा कथनीया, न स्त्रीणां निषद्या सेवनीया, उत्थितानां तदासने नोपवेष्टव्यं, न स्त्रीणामिन्द्रियाण्यवलोकनीयानि, न स्त्रीणां कुख्यान्तरितानां मोहनसंसक्कानां क्वणितध्वनिराकर्णयितव्यः, न पूर्वक्रीडितानुस्मरणं कर्तव्यं, न प्रणीतं भोक्तव्यं,
456
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~ 1294 ~