________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
“आवश्यक”- मूलसूत्र-१ (मूलं+निर्युक्तिः+वृत्तिः)
अध्ययनं [-], मूलं [-- /गाथा -], निर्युक्ति: [ ८० ], भाष्यं [-]
नित्यनेनैव 'भगवत' इत्यस्य गतार्थत्वात् तीर्थकृतामुक्तलक्षणभगाव्यभिचारात् नार्थोऽनेनेति, न, नयमतान्तरावलम्बिपरिकल्पिततीर्थकर तिरस्कारपरत्वादस्येति, तथा च न तेऽविकलभगवन्तः तान् भगवतो, वन्द इति क्रिया सर्वत्र योग्या । तथा परे-शत्रवः, ते च क्रोधाद्याः, आक्रमणमाक्रमः - पराजयः तदुच्छेद इतियावत् परेषामाक्रमः पराक्रमः, | सोऽनुत्तरः-अनन्यसदृशो येषां ते तथाविधाः । आह--ये खलु ऐश्वर्यादिभगवन्तः तेऽनुत्तरपराक्रमा एव, तमन्तरेण विव|क्षितभगयोगाभावात् ततश्च 'अनुत्तरपराक्रमान्' इत्येतदतिरिच्यते इति, अत्रोच्यते, अनादिशुद्धेश्वर्यादिसमन्वितपर|मपुरुषप्रतिपादनपरनयवादनिराकरणार्थत्वाद् न दोषः, तथा चानुत्तरपराक्रमत्वमन्तरेणैव कैश्चित् हिरण्यगर्भादीनामनादिविवक्षित भगयोगोऽभ्युपगम्यत इति उक्तं च - "ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्य चैव धर्मश्च, सहसिद्धं चतुष्टयम् ॥ १ ॥" इत्यादि, अकर्त्रात्मवादव्यवच्छेदार्थ वा । अमितं- अपरिमितं शेयानन्तत्वात् केवलं अमितं ॐ ज्ञानं एषामित्यमित ज्ञानिनः । आह— येऽनुत्तरपराक्रमास्तेऽमितज्ञानिन एव नियमेन, क्रोधादिपरिक्षयोत्तरकालभाविस्वाद् अभितज्ञानस्येति, उच्यते, सत्यमेतत् किं तु क्लेशक्षयेऽप्यमितज्ञानानभ्युपगमप्रधाननयवादनिरासार्थत्वाद् उपन्यास इति, तथा चाहुरेके-" सर्व पश्यतु वा मा वा, इष्टमर्थं तु पश्यतु । कीटसङ्ख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ? ॥ १ ॥ इत्यादि", स्वसिद्धान्तप्रसिद्धच्छद्मस्थवीतरागव्यवच्छेदार्थ वा । तथा तरन्ति स्म भवार्णवमिति तीर्णास्तान तीर्णान्, तीर्त्वा च भवौघं 'सुगतिगतिगतान्' तत्र सर्वज्ञत्वात्सर्वदर्शित्वाच्च निरुपमसुखभागिनः सुगतयः - सिद्धाः, तेषां
१ अधिकभगवत इति * ०सिद्वैश्व० + दिशयो०
Education national
For Parts Only
www.janbay.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१ ] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
~122~