________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०४...],
(४०)
प्रत सूत्रांक
[सू...]
व्याख्या-प्रमादा-मद्यादयः, यथोक्तम्-'मज विसयकसाया निद्दा विकहा य पंचमी भणिया' सर्वप्रमाद रहिताः सर्वप्रमादरहिताः, अप्रमादवन्त इत्यर्थः, 'मुनयः' साधवः 'क्षीणोपशान्तमोहाच' इति क्षीणमोहा:-क्षपकनिर्घन्धाः उपशान्त मोहा-उपशामकनिन्थाः , चशब्दादन्ये वाऽप्रमादिनः, 'ध्यातार चिन्तकाः, धर्मध्यानस्येति सम्बन्धः, ध्यातार एव विशेष्यन्ते-'ज्ञानधनाः' ज्ञानवित्ता, विपश्चित इत्यर्थः, निर्दिष्टाः' प्रतिपादितास्तीर्थकरगणधरैरिति गाथार्थः ॥६३॥ उक्का धर्मध्यानस्य ध्यातारः, साम्प्रतं शुक्लध्यानस्याप्याद्यभेदद्वयस्याविशेषेण एत एव यतो ध्यातार इत्यतो मा भूत्पुनरभिघेया भविष्यन्तीति लाघवार्थ चरमभेदद्वयस्य प्रसङ्गत एव तानेवाभिधित्सुराह
एएचिय पुषाणं पुत्रधरा सुप्पसत्यसंघयणा । दोण्ह सजोगाजोगा सुशाण पराण केवलिणी ॥४॥ व्याख्या 'एत एवं' येऽनन्तरमेव धर्मध्यानध्यातार उक्ताः 'पूर्वयोः' इत्याद्ययोद्धयोः शुक्लध्यानभेदयोः पृथक्त्ववितकसविचारमेकत्ववितर्कमविचारमित्यनयोः ध्यातार इति गम्यते, अयं पुनर्विशेषः-'पूर्वधराः' चतुर्दशपूर्वविदस्तदुपयुक्ताः, इदं च पूर्वधरविशेषणमप्रमादवतामेव वेदितव्यं, न निम्रन्थानां, माषतुषमरुदेव्यादीनामपूर्वधराणामपि तदुपपत्तेः, 'सुप्रशस्तसंहनना' इत्याद्यसंहननयुक्ताः, इदं पुनरोघत एव विशेषणमिति, तथा 'द्वयोः' शुक्लयोः परयोः-उत्तरकालभाविनोः प्रधानयोर्चा सूक्ष्मक्रियानिवृत्तिव्युपरतक्रियाऽप्रतिपातिलक्षणयोर्यथासङ्घर्ष सयोगायोगकेवलिनो ध्यातार इति योगः,
दीप अनुक्रम [२१..]
मर्थ विषयाः कपाया निद्रा विकथा च पञ्चमी भणिता.
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~ 1208~