SearchBrowseAboutContactDonate
Page Preview
Page 1187
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [सू...] दीप अनुक्रम [२१..] आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा ], निर्युक्तिः [१२७१...] भाष्यं [ २०४...], मित्यर्थः, तथा 'शुभादान' मिति शुभं पुण्यं सातसम्यक्त्वहास्यरति पुरुषवेदशुभायुर्नामगोत्रात्मकं तस्याऽऽदानं-ग्रहणं, किं ?-'चारित्रभावनया' हेतुभूतया ध्यानं च चशब्दान्नवकर्मानादानादि च 'अयलेन' अक्लेशेन 'समेति' गच्छति प्राप्तोतीत्यर्थः । तत्र चारित्रभावनयेति कोऽर्थः !-'चर गतिभक्षणयोः' इत्यस्य 'अर्तिलूधूसूखनिसहिचर इत्रन्' (पा० ३-२१८४ ) इतीन्प्रत्ययान्तस्य चरित्रमिति भवति, चरन्त्यनन्दितमनेनेति चरित्रं क्षयोपशमरूपं तस्य भावश्चारित्रम् एतदुक्तं भवति - इहाम्यजन्मोपात्ताष्टविध कर्मसञ्चयापचयाय चरणभावश्चारित्रमिति, सर्वसावद्ययोगविनिवृत्तिरूपा क्रिया इत्यर्थः, तस्य भावना - अभ्यासश्चारित्र भावनेति गाथार्थः ॥ ३३ ॥ उक्ता चारित्रभावना, साम्प्रतं वैराग्यभावनास्वरूपगुणदर्शनार्थमाह- सुविदियजगरसभावो निस्संयो निभो निरासो य । रम्भावियमणो शाणंमि सुनिश्चलो होइ ॥ २४ ॥ व्याख्या- सुष्ठु - अतीव विदितः ज्ञातो जगतः - चराचरस्य, यथोक्तं- 'जगन्ति जङ्गमान्याहुर्जगद् ज्ञेयं चराचरम्' खो भावः स्वभावः,- 'जन्म मरणाय नियतं बन्धुर्दुःखाय धनमनिर्वृतये । तन्नास्ति यन्न विपदे तथापि लोको निरालोकः ॥ १ ॥ इत्यादिलक्षणो येन स तथाविधः कदाचिदेवम्भूतोऽपि कर्मपरिणतिवशात्ससङ्गो भवत्यत आह-'निःसङ्गः' विषयजस्नेहसङ्गरहितः, एवम्भूतोऽपि च कदाचित्सभयो भवत्यत आह- 'निर्भयः' इहलोकादिसप्त भयविप्रमुक्तः, कदाचिदेवम्भूतोऽपि विशिष्टपरिणत्यभावात्परलोकमधिकृत्य साशंसो भवत्यत आह- 'निराशंसश्च' इहपरलोकाशंसाविप्रमुक्तः, चशब्दात्तथाविधक्रोधादिरहितश्च य एवंविधो वैराग्यभावितमना भवति स खस्वज्ञानाद्युपद्रवरहितत्वाद् ध्याने सुनिश्चलो भवतीति मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक मूलं एवं हरिभद्रसूरि रचित वृत्तिः ~1186~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy