________________
आगम (४०)
प्रत
सूत्रांक
[सू...]
दीप
अनुक्रम
[२१..]
आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा ], निर्युक्तिः [१२७१...] भाष्यं [ २०४...],
रौद्रध्यानमिति प्रकरणाद्गम्यते, किंविशिष्टस्य सत इत्यत आह-माया निकृतिः साऽस्यास्तीति मायावी तस्य मायाविनोवणिजादेः, तथा 'अतिसन्धानपरस्य' परवञ्चनाप्रवृत्तस्य, अनेनाशेषेष्वपि प्रवृत्तिमध्या (स्या) ह, तथा 'प्रच्छन्नपापस्य' कूटप्रयोगकारिणस्तस्यैव, अथवा धिग्जातिककुतीर्थिकादेरसद्भूतगुणं गुणवन्तमात्मानं ख्यापयतः तथाहि गुणरहितमप्यात्मानं यो गुणवन्तं ख्यापयति न तस्मादपरः प्रच्छन्नपापोऽस्तीति गाथार्थः ॥ २० ॥ उक्तो द्वितीयो भेदः, साम्प्रतं तृतीयमुपदर्शयति-तह कोहाट भूवषायणमनं परदवहरणचित्तं परलोयावाय निरवेक्त्रं ॥ २१ ॥
व्याख्या -- तथाशब्दो दृढाध्यवसायप्रकार सादृश्योपदर्शनार्थः, तीव्रौ-उत्कट तो क्रोधलोभी च २ ताभ्यामाकुल:अभिभूतस्तस्य जन्तोरिति गम्यते, किं ? - 'भूतो पहननमनार्य' मिति हन्यतेऽनेनेति हननम् उप-सामीप्येन हननम् उपहननं भूतानामुपहतनं भूतोपहननम्, आराद्यातं सर्वहेयधर्मेभ्य इत्यार्य नाऽऽर्यमनायें, किं तदेवंविधमित्यत आह-परद्रव्यहरणचिसं रौद्रध्यानमिति गम्यते, परेषां द्रव्यं २ सचित्तादि तद्विषयं हरणचित्तं २ परद्रव्यहरणचित्तं, तदेव विशेष्यतेकिम्भूतं तदित्यत आह- 'परलोकापायनिरपेक्ष' मिति, तत्र परलोकापायाः- नरकगमनादयस्तनिरपेक्षमिति गाथार्थः ॥ २१ ॥ उक्तस्तृतीयो भेदः, साम्प्रतं चतुर्थ भेदमुपदर्शयन्नाह -
सद्दाद्दविसयसाद्दणघणसारणपरायणमनि । सङ्घाभिसं कणपरोवधाय कसाव चितं ॥ १२ ॥
व्याख्या - शब्दादयश्च ते विपयाश्च शब्दादिविषयास्तेषां साधनं कारणं शब्दादिविषयसाधनं च ( तच्च तद्धनं च शब्दा दिविषयसाधनधनं तत्संरक्षणे- तत्परिपालने परायणम् - उद्युक्तमिति विग्रहः, तथाऽनिष्टं - सतामनभिलषणीयमित्यर्थः, इदमेव
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
~ 1180~