________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७१...] भाष्यं [२०४...],
(४०)
प्रत सूत्रांक
[सू...]
दुर्गती प्रपतन्तमात्मानं धारयतीति धर्मः सँश्चासौ धर्मश्च सद्धर्म:-क्षान्त्यादिकश्चरणधों गृह्यते ततः पराङ्मुखः, 'प्रमादपर' मद्यादिप्रमादासता, 'जिनमतमनपेक्षमाणो वर्तते आर्तध्याने' इति तत्र जिना:-तीर्थकरास्तेषां मतम्-आगमरूपं प्रवचनमित्यर्थः तदनपेक्षमाणः-तनिरपेक्ष इत्यर्थः, किम् ?-वर्त्तते आर्तध्याने इति गाथार्थः ॥१७॥ साम्प्रतमिदमार्तध्यान सम्भवमधिकृत्य यदनुगतं यदनह वर्तते तदेतदभिधित्सुराह
तविश्वदेसपिरषा पमायपरसंजयाणुगं झाण । सञ्चप्पमायमूलं वजेय जइजणेणे ॥ १८ ॥ व्याख्या-'तद्' आर्तध्यानमिति योगः, 'अविरतदेशविरतप्रमादपरसंयतानुग'मिति तत्राविरता-मिथ्यादृष्टयः सम्य४ दृष्टयश्च देशविरता:-एकवाद्यणुव्रतधरभेदाः श्रावकाः प्रमादपरा:-प्रमादनिष्ठाश्च ते संयताश्च २ ताननुगच्छतीति विग्रहः,
नवाप्रमत्तसंयतानिति भावः, इदं च स्वरूपतः सर्वप्रमादमूलं वर्तते, यतश्चैवमतो 'वर्जयितव्य' परित्यजनीयं, केन ?-'यतिजनेन' साधुलोकेन, उपलक्षणत्वात् श्रावकजनेन, परित्यागाईत्वादेवास्येति गाथार्थः ॥ १८ ॥ उक्तमार्तध्यानं, साम्प्रतं रौद्रध्यानावसरः, तदपि चतुर्विधमेव, तद्यथा-हिंसानुबन्धि मृषानुबन्धि स्तेयानुबन्धि विषयसंरक्षणानुबन्धि च, उक्कं चोमाखातिवाचकेन-"हिंसाऽनृतस्तेयविषयसंरक्षणेभ्यो रौद्र"मित्यादि ( तत्त्वार्थे अ०९-सू०३६)॥ तत्राऽऽयभेद-12 प्रतिपादनायाह
सत्तबहवेहबंधणउहणंकणमारणाइपणिहानं । अइकोहगावरचं निग्विणमशसोऽहमदिवागं ॥ १९॥ व्याख्या-सया-एकेन्द्रियादयः तेषां वधवेधवन्धनदहनाङ्कनमारणादिप्रणिधानं तत्र वध:-ताडनं करकशखतादिभिः
दीप अनुक्रम [२१..]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~1178~