________________
आगम
(४०)
प्रत
सूत्रांक
[सू...]
दीप
अनुक्रम [२१..]
आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा ],
निर्युक्तिः [१२७१...] भाष्यं [ २०४...],
एयं चरागोसमोएंकियस्स जीवस्स अहाणं संसारवणं तिरियइमुलं ॥ १० ॥
व्याख्या–‘एतद्’ अनन्तरोदितं 'चतुर्विधं चतुष्प्रकारं 'रागद्वेषमोहाङ्कितस्य' रागादिलाञ्छितस्येत्यर्थः, कस्य ?'जीवस्य' आत्मनः, किम् ? - आर्तध्यानमिति तथा च इयं चतुष्टयस्यापि क्रिया, किंविशिष्टमित्यत आह-संसारवर्द्धनमोघतः, तिर्यग्गतिमूलं विशेषत इति गाथार्थः ॥ १० ॥ आह साधोरपि शूलवेदनाभिभूतस्यासमाधानात् तत्प्रतिकारकरणे च तद्विप्रयोगप्रणिधानापत्तेः तथा तपःसंयमासेवने च नियमतः सांसारिकदुःखवियोगप्रणिधानादार्तध्यानप्राप्तिरिति, अत्रोच्यते, रागादिवशवर्तिनो भवत्येव, न पुनरन्यस्येति, आह च ग्रन्थकारः
मत्थस्स व मुणिणो सम्मपरिणामणियमेयति । वधुस्वभावचितणपरस्य समं सतस्स ॥ ११ ॥
व्याख्या - मध्ये तिष्ठतीति मध्यस्थः, रागद्वेषयोरिति गम्यते, तस्य मध्यस्थस्य, तुशब्द एवकारार्थः, स चावधारणे, मध्यस्थस्यैव नेतरस्य मन्यते जगतस्त्रिकालावस्थामिति मुनिस्तस्य मुनेः, साधोरित्यर्थः, स्वकर्मपरिणामजनितमेतत्-शूलादि, यच्च प्राकर्मविपरिणामिदैवादशुभमापतति न तत्र परितापाय भवन्ति सन्तः, उक्तं च परममुनिभिः - 'पुबिं खलु भो! कडाणं कम्माणं दुचिष्णाणं दुप्पडिकंताणं वेत्ता मोक्खो, नत्थि अवेदइत्ता, तवसा वा झोसइत्ते'त्यादि, एवं वस्तुस्वभावचिन्तनपरस्य 'सम्यक्' शोभनाध्यवसायेन सहमानस्य सतः कुतोऽसमाधानम् ?, अपि तु धर्म्यमनिदानमिति वक्ष्यतीति गाथार्थः ॥ ११ ॥ परिहृत आशङ्कागतः प्रथमपक्षः, द्वितीयतृतीयावधिकृत्याह
3 पूर्व खलु भोः कृतानां कर्म दुखीणांनां दुष्यतिक्रान्तानां वेदवित्वा मोक्षो नास्त्यत्वा तपसा या क्षपयित्वा.
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
~ 1174~