SearchBrowseAboutContactDonate
Page Preview
Page 1109
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [१...] / [गाथा-], नियुक्ति: [१२३६], भाष्यं [२०४...], (४०) प्रत सूत्रांक १.. ROCESCCESCOR भावपरिहरणाप्रशस्ता अप्रशस्ता च,अप्रशस्ता ज्ञानादिपरिहरणा,प्रशस्ता क्रोधादिपरिहरणा,अथवौषत एवोपयुक्तस्य सम्यग्दृष्टेः, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्याः प्रतिक्रमणमप्यशुभयोगपरिहारेणैवेति, वारणेदानीं, 'वृल वरणे' इत्यस्य ण्यन्तस्य । ल्युडि वारणा भवति, वारणं वारणा निषेध इत्यर्थः, सा च नामादिभेदतः पोढा भवति, तथा चाह__णामं ठवणा दविए खित्ते काले तहेव भावे य । एसो उ वारणाए णिकखेवो छब्बिहो होइ ॥१२३७॥ I व्याख्या-तत्र नामस्थापने गताथें, द्रव्यवारणा तापसादीनां हलकृष्टादिपरिभोगवारणा, अनुपयुक्तस्य सम्यग्दृष्टेवों देशनायां उपयुक्तस्य वा निवस्यापथ्यस्य वा रोगिण इतीयं चोदनारूपा, क्षेत्रवारणा तु यत्र क्षेत्रे व्यावय॑ते क्रियते वा क्षेत्रस्य वाऽनार्यस्येति, कालवारणा यस्मिन् व्यावर्ण्यते क्रियते वा कालस्य वा विकालादेवर्षासु वा विहारस्येति, भाववाकरणेदानी, सा च द्विविधा-प्रशस्ताऽप्रशस्ता च, प्रशस्ता प्रमादवारणा, अप्रशस्ता संयमादिवारणा, अथवौषत एवोपयुक्तस्य सम्यग्दष्टेरिति, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्याः स्फुटा, निवृत्तिरधुना, 'वृत वर्तने' इत्यस्य निपूर्वस्य क्तिनि निवर्तन निवृत्तिः, सा च पोढा, यत आह नाम ठवणा दविए खित्ते काले तहेव भावे य । एसो य नियत्तीए णिक्खेवो छब्बिहो होइ ।। १२३८॥ व्याख्या-नामस्थापने गतार्थे, द्रव्यनिवृत्तिस्तापसादीनां हलकृष्टादिनिवृत्तिरित्याद्यखिलो भावार्थः स्वबुद्ध्या वक्तव्यः, यावत् प्रशस्तभावनिवृत्त्येहाधिकारः । निन्देदानी, तत्र 'णिदि कुत्सायाम् अस्य 'गुरोश्च हलः' (पा०३-३-१०३)16 इत्यकार: दाप् , निन्दनं निन्दा, आत्माऽध्यक्षमात्मकुत्सेत्यर्थः, सा च नामादिभेदतः पोढा भवति, तथा चाह दीप अनुक्रम [१०..] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1108~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy