________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [१...] / [गाथा-], नियुक्ति: [१२३२], भाष्यं [२०४...],
(४०)
प्रत
सूत्रांक
१..
दोषः, श्रथमेवोपन्यासः कस्मान्न कृत इति चेत् प्रतिक्रमणाध्ययननामनिष्पक्षनिक्षेपप्रधानत्वात्तस्येत्यलं विस्तरेणेति गाथार्थः ॥ १२३२ ॥ उक्तः प्रतिक्रमका, साम्प्रतं प्रतिक्रमणस्यावसरः, तच्छब्दार्थपर्यायाचिख्यासुरिदमाहपडिकमणं पडियरणा परिहरणा वारणा नियत्ती य । निंदा गरिहा सोही पडिकमणं अहहा होई ॥१२३३ ॥
व्याख्या-'प्रतिक्रमण तत्त्वतो निरूपितमेव, अधुना भेदतो निरूप्यते, तत्पुनर्नामादिभेदतः षोढा भवति, तथा चाऽऽहणाम ठवणा दविए खित्ते काले तहेव भावे य । एसो पडिकमणस्सा णिक्खेवो छविहो होइ ॥ १२३४ ॥ | व्याख्या-तत्र नामस्थापने गतार्थे, द्रव्यप्रतिक्रमणमनुपयुक्तसम्यग्दृष्टेलेब्ध्यादिनिमित्तं वा उपयुक्तस्य वा निहस्य पुस्तकादिन्यस्तं वा, क्षेत्रप्रतिक्रमणं यस्मिन् क्षेत्रे व्यावयेते क्रियते वा यतो वा प्रतिक्रम्यते खिलादेरिति, कालप्रतिक्रमण वेधा-भुवं अधुवं च, तत्र ध्रुवं भरतैरावतेषु प्रथमचरमतीर्थकरतीर्थेष्वपराधो भवतु मा वा ध्रुवमुभयकालं प्रतिक्रम्यते,12 विमध्यमतीर्थकरतीर्थेषु वधुवं-कारणजाते प्रतिक्रमणमिति, भावप्रतिक्रमणं द्विधा-प्रशस्तमप्रशस्त च, प्रशस्त मिथ्यात्वादे, अप्रशस्तं सम्यक्त्वादेरिति, अथवौषत एवोपयुक्तस्य सम्यग्दृष्टेरिति, प्रशस्तेनानाधिकारः॥ प्रतिचरणा व्याख्यायते-'चर गतिभक्षणयोः' इत्यस्य प्रतिपूर्वस्य ल्युडन्तस्य प्रतिचरणेति भवति, प्रति प्रति तेषु तेष्वर्थेषु चरण-गमनं तेन तेनाऽऽसेवनाप्रकारेणेति प्रतिचरणा, सा च पद्विधा, तथा चाहणामं ठवणा दविए खित्ते काले तहेव भावे य । एसो पडियरणाए णिक्खेवो छबिहो होइ ॥ १२३५ ॥ व्याख्या-तत्र नामस्थापने गतार्थे, द्रव्यप्रतिचरणा अनुपयुक्तस्य सम्यग्दृष्टेस्तेषु तेष्वर्थेष्वाचरणीयेषु चरण-गमन
दीप
अनुक्रम [१०..]
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: 'प्रतिक्रमण' शब्दस्य अष्ट पर्यायाः, तेषाम् व्याख्या एवं कथा:
~1106~