________________
आगम
(४०)
प्रत
सूत्रांक
[..]
दीप
अनुक्रम [१०]
आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
अध्ययन [४], मूलं [१...] / [गाथा - ], निर्युक्तिः [१२३१], भाष्यं [२०४...],
आवश्यक
योज्यमिति वाक्यशेषः । आह-प्रतिक्रमणमतीतविषयं यत उक्तम्- 'अतीतं पडिकमामि पडुप्पन्नं संवरेमि अणागयं पच्चहारिभक्खामि त्ति तत्कथमिह कालत्रये योज्यते इति ?, उच्यते, प्रतिक्रमणशब्दो ह्यत्राशुभयोगनिवृत्तिमात्रार्थः सामान्यः द्वीया परिगृह्यते, तथा च सत्यतीतविषयं प्रतिक्रमणं निन्दाद्वारेणाशुभयोगनिवृत्तिरेवेति प्रत्युत्पन्नविषयमपि संवरणद्वारेणाशुभयोगनिवृत्तिरेव, अनागतविषयमपि प्रत्याख्यानद्वारेणाशुभयोगनिवृत्तिरेवेति न दोष इति गाथाक्षरार्थः ॥ १२१ ॥ साम्प्रतं प्रतिक्रामकस्वरूपं प्रतिपादयन्नाह—
॥५५१॥
जीवो उ पडिकमओ असुहाणं पावकम्मजोगाणं। झाणपसत्था जोगा जे ते ण पडिक्कमे साहू ।। १२३२ ।। व्याख्या- 'जीवः' प्राग्निरूपित शब्दार्थः, तत्र प्रतिक्रामतीति प्रतिक्रामकः, तुशब्दो विशेषणार्थः, न सर्व एव जीवः प्रतिक्रामकः, किं तर्हि ?- सम्यग्दृष्टिरुपयुक्तः, केषां प्रतिक्रमकः ?- 'अशुभानां पापकर्मयोगानाम्' अशोभनानां पापकर्मव्यापाराणामित्यर्थः, आह- पापकर्मयोगा अशुभा एव भवन्तीति विशेषणानर्थक्यं, न, स्वरूपान्वाख्यानपरत्वादस्य, प्रशस्तौ च ती योगौ च प्रशस्तयोगी, ध्यानं च प्रशस्तयोगौ च ध्यानप्रशस्तयोगा ये तानधिकृत्य 'न प्रतिक्रमेत' न प्रतीपं वर्तेत साधुः, अपि तु तान् सेवेत, मनोयोगप्राधान्यख्यापनार्थ पृथग् ध्यानग्रहणं, प्रशस्तयोगोपादानाश्च ध्यानमपि धर्मशुक्लभेदं प्रशस्तमवगन्तव्यम्, आह-'यथोद्देशं निर्देश' इति न्यायमुहस्य किमिति प्रतिक्रमणमनभिधाय प्रतिक्रामक उक्तः ?, तथाऽऽद्यगाथागत मानुपूर्वीग्रहणं चातिरिष्यत इति, उच्यते, प्रतिक्रमकस्याल्पवक्तव्यत्वात् कर्त्रधीनत्वाच्च क्रियाया इत्य
१] अती प्रतिक्रमामि प्रत्युत्पन्नं संवृणोमि अनागतं प्रत्याख्यामि.
४ प्रतिक्र
मणाध्ययने प्रतिक्रमणादि
स्वरूपं
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
~ 1105~
॥५५१॥