________________
आगम
(४०)
“आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [-], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
प्रत
सूत्राक
हि मोदकस्य त्रिधाविभक्तस्य अपान्तरालद्वयं नास्ति, एवं प्रकृतशास्त्रस्यापीति भावार्थः । मङ्गलत्वं चाशेषशास्त्रस्य निर्जदारार्थत्वात् , प्रयोगश्च-विवक्षितं शास्त्रं मङ्गलं, निर्जरार्थत्वात् , तपोवत् । कथं पुनरस्य निर्जरार्थतेति चेत्, ज्ञानरूपत्वात् , | ज्ञानस्य च कर्मनिर्जरणहेतुत्वात् , उक्तं च-"ज नेरइओ कम्मं, खवेइ बहुयाहि वासकोडीहिं । तं नाणी तिहि गुत्तो,
खवेइ ऊसासमित्तेणं ॥१॥"। स्यादेतत्, एवमपि मङ्गलत्रयपरिकल्पनावैयर्थ्यमिति, न, विहितोत्तरत्वात् , तस्मात्स्थितहमेतत्-शास्त्रस्य आदौ मध्येऽवसाने च मङ्गलमुपादेयमिति । | आह-मङ्गलमिति कः शब्दार्थः?, उच्यते, अगिरगिलगिवगिमगि इतिदण्डेकधातुः, अस्य "इदितो नुम्धातोः" (पा० |४-१-५८) इति नुमि विहिते औणादिकालचूप्रत्ययान्तस्यानुबन्धलोपे कृते प्रथमैकवचनान्तस्य मङ्गलमितिरूपं भवति, मङ्गयते हितमनेनेति मङ्गलं, मनाचते अधिगम्यते साध्यत इतियाँवत्, अथवा मङ्गेतिधर्माभिमानं, 'ला आदाने' अस्य धातोर्मङ्ग उपपदे "आतोऽनुपसर्गे कः" (पा०३-२-३) इति कप्रत्ययान्तस्य अनुबन्धलोपे कृते "आतो लोप इटि च विति" (पा०६-४-६४ आतो लोप इटि च ) इत्यनेन सूत्रेणाकारलोपे च प्रथमैकवचनान्तस्यैव मालमिति भवति, मङ्गलातीति मङ्गलं धर्मोपादानहेतुरित्यर्थः, अथवा मां गालयति भवादिति मङ्गलं संसारादपनयतीत्यर्थः। .. अनुमानस्य. २ मङ्गलमयस्य अविनसमात्यादिकार्यत्रयस्य पृथक्पृधक्तया साधकरवात्. ३ सिद्धम्, १ सदृशधातूनामेका पाठात. ५ प्रात्यर्थत्वात् गल्य र्थानां. ६ निदर्शनमात्रत्वाद्धातूनाम्. ७ पर्यायस्य पर्यायकथने प्रयोग एतस्य.
दीप
अनुक्रम
मङ्गलस्य व्याख्या एवं द्रव्यादि चत्वारः भेदा:
~ 10~